________________
दशकएठववम् तया आवासत्वेन । सर्व नानासस्य ददति वितरन्तीति सर्वदा । अतुला निरुपमा । यथायोग निबद्धा इति यावत् । सीमा चतुर्दिक्का मर्यादा सन्ति येषा येषु वेत्यतुलसीमवन्त । सर्वदाश्च ते अतुलसीमवन्तश्च । विशेषणयोरपि परस्पर विशेषणविशेष्यविवक्षया-'विशेषण विशेष्येण बहुलम्' (पा २।१।५७) इति समासः । षष्ठयर्थबहुव्रीहिणा मतुबर्थाभिधानेऽपि तन्निबन्धन क्वचिन्नासमञ्जसम् । इह-'प्रत्ययस्थात्कात्-' (पा ७।३।४४) इति सूत्रे 'असुब्बत' इति भाष्यप्रयोगो नियामक । तथाभूताना केदाराणाम् । आधारतया आश्रयत्वेन । सर्वदा अतुला सीमा अण्डकोश तद्वता कस्तूरीमृगाणाम् । आधारतया विहारस्थलत्वेन । सर्व द्यन्ति खण्डयति इति सर्वदा अतुला अप्रतिभटा सीमावन्त व्याधादय घातुका । तेषाम् । आधारतया मृगयास्पदत्वेन । अनेकधा बहुधा । रञ्जयति प्रीणयति । अनेका धारा यस्मिन् कर्मणि तद् यथा स्यात् तथा । जयनक्रियाविशेषणम् । जयति लोकोत्तर वर्तते । अभिभवतीति वा । अर्मक सकर्मकश्च जयतिरित्यर्थ ॥२०॥ अमन्दसौगन्ध्यतरङ्गिताभि
मरन्दसदोहकरम्बिताभि । पतत्प्रसूनोत्करबन्धुराभि
यो भृष्यते कुञ्जपरम्पगभिः ॥२१॥ अमन्देति । य कोसलाख्यो जनपद । अमन्द गाढ यत् सौगन्ध्य सौरभ्य तेन तरङ्गिताभि नीरन्ध्रिताभि । 'तदस्य सजात तारकादिभ्य इतच् (पा० ५।२।३६ ) इतीतच् । मरन्दाना मकरन्दाना सदोह सचय , तेन करम्बिताभि सपृक्ताभि । पतन्ति गलति यानि प्रसूनानि कुसुमानि तेषाम् उत्कर सघात तेन बन्धुराभि मनोहराभि नतोन्नताभिर्वा । कुञ्जाना निकुञ्जाना लतादिपिहितोदराणाम् अवस्थानाना परम्पराभि सहतिभि । भूयते अलक्रियते । भूषअलकारे । कर्मणि लट् । उपजातिवृत्तम ॥२१॥ उदारकर्माप्यनुदारकर्मा
वनीपरागोऽप्यवनीपरागः । यः पाटलाभोऽप्युपशल्यरूढ
द्रुमावलीश्यामलितश्चकास्ति ॥२२॥