________________
१८
दशकण्ठवपम् भद्रस्य दाशरथे नियोगेन आदेशेन। तत्सनाथाया तेन भूषितायाम् । परिषदि सभाया यथाक्रम यथासबन्धम् । गातुमुपचक्रमाते प्रारेभाते । तदिद वाल्मी कीयमार्ष तदुपजीव्य प्रकृत रघुवशवत् पौरुषमिति व्यक्तम् ।।१७।। अथेदानी जनपद वर्णयति
अस्ति स्वस्तिमान् , प्रत्यादेश स्वर्गोद शस्य, वीप्मा चैत्ररथप्रदेशस्य, दृष्टान्तसदन सकलासेचनकानाम् , कनिकातिक्रान्तविभूत्या भगवत्या सरवा मरसीभूतभूभाग कोशलो नाम जनपदः ॥१८॥
अस्तीति । स्वस्तिमान् कल्याणानुबन्धी । स्वर्गोडे शस्य स्वर्लोकस्य प्रत्यादेशो निराकृति । चैत्ररथप्रदेशस्य कुबेरावासस्य वीसा द्विर्भाव । सकला सेचनकानाम्-'तदासेचनक तृते स्त्यन्तो यस्य दर्शनात्' इति लक्षिताना यावद्रमणीयाना दृष्टान्तसदनमादर्श । कविर्माण वर्णनमतिक्रान्ता अति शायिनी विभूतिरश्वर्यं यस्यास्तथाभूतया । भगवत्या जलात्मकद्रवद्रव्यविलक्षण विग्रहालकीणया । एतच्चागमेषु गङ्गादिवर्णनेषु प्रसिद्धमेव । सरय्वा तदाख्यया महानद्या । सरसीभूत मसृणप्राय न तु मरुप्रदेशादिवन्नीरस भूभाग भूमि प्रदेशो यस्य तादृक् कोसलो नाम उत्तरकोशलारयो जनपदो नीवृत्। अस्तीति पूर्वेणानुषड्ग ॥ १८ ॥ ___ यत्र परागमहिता पाटिका ब्राह्मणाश्च, उच्चापा ह्रदाः क्षत्रियाश्च, बहुलाभाः सस्यसपदो वैश्याश्च, द्विजातिनता फलिन शूद्राश्च, अश्रान्तविक्रमाः कृषीपला विटपाश्च, सच्छाया मार्गा आश्रमाश्च, सदागोभृतः सीमानो गोपाश्च, सुरुचिराजीपनमिताः तडागा कूपाश्च, वहुधान्यजुष्टा ग्रामा मठाश्च, तीव्रतापहारिणः छायावृक्षाः सन्तश्च ॥१६॥
योति । यस्मिश्च कोसलजनपदे । परा उत्कृष्टा अगा वृक्षा , परागा सुमनोरजासि च, तैर्महिता महनीया । मह पूजायाम् । वाटिका वृक्षवाटिका । परा वेदसमता आगमा शास्त्राणि तत्र हिता उचिता ब्राह्मणा अग्रजन्मानश्च । एवमुत्तरत्रापि एकमेव विशेषण विशेष्यद्वये सगच्छत इति द्रष्टव्यम् । उच्चा भूयस्य आप सलिलानि येषु ते उच्चापा । समासान्तोऽप् प्रत्यय । ह्रदा जलाशया । उद्गता चापा' वनू षि येषा ते उच्चापा । क्षत्रियाश्च । बहुला आभा