________________
प्रथमो गुच्छक परे उत्कृष्टा वा, परेषा ये गुणा अभिलषणीया अन्त करणवर्मा तेषा छेदक्रिया दोषारोपणव्यापारा , तत्र कर्कशा निष्ठुरस्वभावा - 'योगिनो योगिना मध्ये भोगिनोऽपि च भोगिनाम् । विदुषामतिविद्वासो दुर्जना कैपिनिश्चिता ॥' इत्येवप्राया महासस्थानविलायकाश्चाटुकारा । हन्तेति खेदे । अये इतरे । द्वौ रदौ दर्शनार्हो येषा ते द्विरदा मातङ्गा । तेषाम् ईक्षिका नयननिमीलिका तव्यसनिन । तद्वद् विलोकयितार इति तात्पर्यम् । प्रायो लक्ष्मीदुर्ललितप्रकृतय एवमनुभूयन्ते | इत्थ विवेचनेन जगत् निस्सार गतश्रीकम् । इति मुहुमुहु पौन - पुन्येन आलोच्य विविच्य । हे रघुकुलोत्त स । रघूणा कुलम् अन्वय तस्य उत्तसो भूषणम्, तत्सबुद्धि । रघुशब्दो यदुशब्दवत् तदपत्ये लाक्षणिक । प्रशसाया आश्रय | आवार | मर्यादापुरुपोत्तमत्वात् । ब्रह्मणि साधु ब्रह्मण्य , तत्सबुद्धि । तत्र साधुरिति यत् । 'ये चाभावमणोरि'त्यन प्रकृतिभाव । अत्र ब्रह्म वेदो ब्राह्मणश्च । शम्बूकनिग्रहेण ब्राह्मणबालरक्षणकथा प्रसिद्धव । अद्भु तमाश्चर्यभूत वीर्य यस्येति तत्सबुद्धि । अद्भुतत्व समुद्रनिग्रहादो सुप्रसिद्धम् । अद केवल त्वामेव याचामहे अर्थयामहे । अदसा निर्देश्य प्रधान कर्म सबोध्यस्य अन्तर्यामित्वेनानुल्लिखितम् । एषकारेण दात्रन्तरव्युदास ॥५॥
साप्रतमादिकवि भगवन्त वल्मीकजन्मान स्मरतिस्मरामि रामायणसर्गबन्धब्रह्माणमाबद्धरसप्रवाहम् । योऽद्व तसिद्वान्ततरङ्गिताया वेदान्तलक्ष्म्याः कुतुकान्यतानीत् ॥ ६ ॥ स्मरामीति | सप्तकाण्डात्मक क्रियाप्रधान षट्प्रकरणात्मक ज्ञानप्रधान चात्र रामायणपदार्थ । स्मरामि तदीयलोकोत्तरकविकर्मभावनेन त प्रति प्रह्वीभवामीति तात्पर्यम् । य आदिकवि अद्वैत जीवब्रह्म क्यम् । लोके चेत्यचित्पदयोराभास्याभासकत्वेन पार्थक्याभ्युपगमेऽपि पर्यवसाने चित एव वस्तुत्वम् । अभिधीयतेऽपि रूपकेण
'मायाख्याया कामधेनोर्वत्सौ जीवेश्वरावुभौ ।
यथेष्ट पिबता द्वैत तत्त्वम तमेव हि ॥' इति । अद्वैतस्य सिद्धान्ता वादिप्रतिवादिभ्या निश्चितार्था । तै तरङ्गिताया विचारिताया । इतच् । वेदान्तस्य उपनिषत्प्रमाणस्य लक्ष्म्या कुतुकानि कौतुकानि । अतानीत् अतनिष्ट । तनोते कर्तरि लुङ ।। इन्द्रवज्रोपेन्द्रवज्रयोरुपजाति ॥६॥