________________
दशकण्ठवधम् गृह्यसूत्र मन्वादिस्मृति पुराणेतिहासेषु प्रतिपादित । इह कल्पसूत्रादिपञ्चके यथोत्तर दौर्बल्यमित्यनुसधेयम् । द्वितीयस्तूपनिषद् ब्रह्मसूत्र स्मृति पुराणेतिहासेषु निरूपित । इह तु पञ्चके ईश केन कठ प्रश्न मुण्ड माण्डूक्य तैत्तिरीय-छान्दोग्य वृहदारण्यकैतरेय-श्वेताश्वतरकैवल्यादय कतिपया एवोपनिषदो हृदयगमा । अन्यास्तु कालवशाद् वहुत्र सदिग्या दृश्यन्ते । इयमेवावस्था मनुयाज्ञवल्क्यस्मृती अपहाय स्मृत्यन्तरे, विष्णु मार्कण्डेयौ विहाय पुराणान्तरे, रामायण-महाभारतयोश्चापि क्वचित्क्वचिद् दृश्यते । ब्रह्मसूत्रादिषडदर्शनानि तु साकल्येन सम्यञ्चीति सर्वं यथायथ परीक्षणीयम् ।
धर्म एव द्र म । मयूरव्यसकादि । धर्मो द्रुम इव इति वा । धर्मघटक त्वात् । धर्मद्र मस्य बीज हेतु । तथा चास्माभिरुपदिश्यते राज्ञ प्रति
"राष्ट्रे पुरे ग्रामटिकान्तरे च धर्मप्रचाराय सदा यतध्वम् । य आश्रयीभूय विधीयमानो जन पतन्त धरतीति रूढि ।।
(चातुवर्ण्यशि० ७२ श्लो०) इति । उपनिपूर्वात् सदे कर्तरि क्विपि उपनिषद -मन्त्रब्राह्मणलक्षणस्य वेदस्य भागा । यथा वाजसनेयिमन्त्रसहितायाश्चत्वारिंशोऽध्याय ईशावास्योपनिषद् वाजसनेयिब्राह्मणस्य शतपथस्य चतुर्दश काण्डो बृहदारण्यकोपनिषद् । अरण्ये पाठ्यत्वाद् आरण्यकमिनि सज्ञा । यदाहु
"अत्र चोपनिषच्छब्दो ब्रह्मविद्ये कगोचर । तच्छब्दावयवार्थस्य विद्यायामेव सभवात् ।। उपोपसर्ग सामी'ये तत्प्रतीचि समाप्यते । सामीप्यतारतम्यस्य विश्रान्ते स्वात्मनीक्षणात् ।। त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम् । उपनीय तमात्मान ब्रह्मापास्तद्वय तत ॥ निहन्त्यविद्या तज्ज च तस्मादुपनिषद् भवेत् । निहन्त्यानर्थमूल स्वाविद्या प्रत्यक्तया परम् ॥ गमयत्यस्तसभेदमतो वोपनिषद् भवेत् । प्रवृत्तिहेतून्नि शेषास्तन्मूलोच्छेद्कत्वत ॥
यतोऽवसादयेद् विद्या तस्मादुपनिषद् * भवेत् ।" इति । * अत्रेदमप्यनुसधेयम्-उपनिषच्छब्दो ब्रह्मात्मैक्यसाक्षात्कारविषय । उपनिपूर्वस्य क्विप्प्रत्ययान्तस्य 'षद्लु विशरणगत्यवसादनेषु' इत्यस्य धातोरुप