________________
प्रथमो गुच्छक पाठेनैवापठिष्यत् । तथा च-तत्र निरतिशय सार्वज्ञबीजम्' ( यो० द० १ २५) इति सूत्रे योगवार्तिके___ "हरिहरादिसज्ञामूर्तयस्तु शक्तिशक्तिमदाद्यभेदेनोपासनार्थमेव परमेश्वरस्यो च्यन्ते न तु साक्षादेव ।"
इतो माण्डूक्यादुपज्ञातो पिराड हिरण्यगर्भ प्राज्ञ विभागोऽपि यथोत्तर सारग्राही ब्रह्मण एकत्वमेव बोधयति । श्रुति स्मृतिनीत्या आत्मब्रह्म श्वरा पर्याया इति मनोहत्य मीमासनीयम् । एतदभिधेयरूढाना शब्दानामैकमत्येऽपि जाति गुण क्रिया यदृच्छासश्लेषेण पार्थक्यम् । तत्र शरीरिणि भौतिकस्य शरीराशस्य व्यपगम इव चिदैक्यामर्शानुमानानुभवाभ्यामेकत्वमेवोपपद्यते । अतएव भगवता पाराशर्येण पुराणेतिहासेषु पञ्चदेवोपास्तिमभिदवतापि पञ्चायतनोन्यायेन पर्यायात् पञ्चानामपि गौणमुख्यभाव वर्णयता तदेकतायामेवावस्थायि । अन्यथा तत्र मृढत्वारोपणास्माभिरेव प्रत्यवेतव्यम् । इह हरिहरादिसहस्रनामस्वपि विशेषण विशेष्यसगत्या भेदकनाम्ना समवाये भेद , अभेदकाना त्वभेद इत्यन्यत्र विस्तर । इन्द्रवशा वृत्तम् ।।२॥
इदानी विशेषवर्तनशालिनि विवर्ते परिणमनयोगिनि परिणामे वा परमामन ऐश्वर्येष्ववतारावतसमुपश्लोकयति
बीज धर्मद्रमस्यावनिरुपनिषदामास्पद दर्शनानामास्थान मङ्गलानामुपपनमतुलानन्दमाकन्दकानाम् । स्फूर्जत्पीयूषवृष्टिः कलिकलुषकथाक्लेशसतापभाजा प्रत्याख्यान रिपूणा चिरभवतु जगज्जानकीजानिरेकः ॥३॥ बीजमिति । पतन्त जनमालम्बनीभूय वरतीति वर्म । औणादिको मन् । तथा च श्रुति -
“वर्मो विश्वस्य जगत प्रतिष्ठा लोके धर्मिष्ठ प्रजा उपसर्पन्ति । धर्मेण पापमपनुदन्ति, वर्मे सर्व प्रतिष्ठित, तस्माद् धर्म परम वदन्ति ।।" इति ।
(तैत्ति० आर० १० प्रा० ६३ अनु०) तथा- 'चोदनालक्षणोऽर्थो धर्म' (मी० द० १ १ २ ) इति जैमिनि । अय हि फलदर्शनरूपेण-'यतोऽभ्युदयनि श्रेयससिद्धि स धर्म' (दै० १० ११२) इति कणादेनासूत्रि । सोऽय प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च । तत्र प्रथम कल्पसूत्र