________________
दशकण्ठवधम् 'यो ब्रह्माण विदधाति पूर्व यो वै वेदाश्च प्रहिणोति तस्मै । त ह देवमात्मबुद्धिप्रकाश मुमुक्षुर्वै शरणमह प्रपद्ये ॥' (श्वेता० ६१८)
य सविता अन्तर्यामी । न अस्माक प्रमातूणाम् । धिय धीपदोपस्था'यान्त करण तदधीनबुद्धिकर्मेन्द्रियाणि । कर्मभुवि-व्यवहारदशायाम् । प्रचोदयान प्रेरयति । लडथे लेट् । तथा च-'व्यत्त्ययो बहुलम्' (पा० सू० ३१८५) इति वृत्तिभाष्यगतम्
'सुप्तिडुपग्रहलिङ्गनराणा कालहलचस्वरक यडा च ।
व्यत्ययमिच्छति शास्त्रकृदेषा सोऽपि हि सिध्यति बाहुलकेन ।।' इति । तदुपबृहण 'क्वचित्प्रवृत्ति क्वचिदप्रवृत्ति क्वचिद्विभाषा क्वचिदन्यदेव ।' इति बाहुलकविवरण च यथाङ्गोपाङ्गगतिक वेदवस्तूद्वतु मेव शरण मन्तव्य न पुनस्तन्नवनव मनीषित वर्त्म नेतुमिति । अन्यथा वेदगव्या मातरि पुरुषायित स्यात् । अत्र सवितु भर्ग इति पुरुषस्य चैतन्यमितिवदभेदे षष्ठीति सक्षेप । वशस्थेन्द्रवशयोरुपजाति ॥१॥
इदानी परमात्मन प्रवानशक्तिकार्य निर्दिशस्तस्यान्वेष्टन्यत्यमादिशतिब्रह्मत्वमापादनरागरञ्जितो विष्णुत्वमाप्यायनकेलिकर्मठः । रुद्रत्वमादानकलावलम्बितो योऽभ्येति मायीप स साधु मृग्यताम् ॥२॥
ब्रह्मत्वमिति । य अन्तर्यामी, माया अघटितघटनापटीयसी अस्यास्तीति मायी। ब्रीह्यादित्वादिनि । मायावी इव । अस्ति जायत इति बीजाकुरमर्यादया यद् आपादन कार्यघटन तत्र यो रागोऽनुराग , तेन रञ्जित अभिनिविष्ट सन् । ब्रह्मत्व ब्रह्मभावम् । अभ्येति प्रयाति । विपरिणमते वर्वत इति यत् पल्लवादिरूपेण कार्यस्य आप्यायन परिपोषण तस्य या केलि तदनुगुणनिभालन तत्र कर्मठ कर्मशूर सन् । विष्णुत्व विष्णुदशाम् । अभ्येति प्राप्नोति । अपक्षीयते नश्यतीति पल्लवादिविस्फारसकोचक्रमेण यद् आदान कार्यस्य कारणाभिमुखीभवन तस्य कलाया कलनाव्यापारे अवलम्बित प्रतिष्ठित सन् । रुद्रत्व रुद्रावस्थाम् अभ्येति गच्छति । स एकस्वभावोऽपि नामरूपप्रथया भिन्नभिन्न इव प्रतीयमान । साधु सोद्योगम् । मृग्यताम् अन्विष्यताम् । मृग अन्वेषणे । कर्मणि लोट् ।
ब्रह्मजिज्ञासा प्रतिजानाना एकस्मादेव ब्रह्मणो जगतो जन्म स्थिति भङ्गमुपदिशन्ति । तत्रोत्थाप्याकाङ्क्षया हरिहरादिपदाक्षेपेण ब्रह्मजिज्ञासा नाकुलीकर्तव्या। श्रुत्तहान्यश्रुतकल्पनाप्रसङ्गात् । यदि तथाभिप्रायोऽभविष्यत् तर्हि हरिहरादिष्वन्यत