________________
प्रथमो गुच्छक इति यथादर्शनभेदावमर्शनदुष्परिणामो व्यक्त एर। इतो वैशेषिकदर्शने प्रतिपत्तिसौकर्थिं चार्वाकादिमुखमुद्रणाय प्रथमभूमिकायामेवात्मा परीक्षित इति द्रष्टव्यम् । अन्यथायमत करणगुणसपृक्त कथमिव वयेत । श्रुति-स्मृतिषु युक्तिप्रमाणाभ्या निर्गुणत्वेन निरूपितत्वात् । समानतन्त्रे न्यायेऽपि प्राधान्येन कथककथैवावतारिता | अथवा अस्तु बालाना सुखबोधायारम्भवाद इवान्त करणसबन्धेनात्मगुणवाद । मन्ये, साख्यदर्शने द्वितीयभूमिकायामात्मा परीक्षित इति । यस्मात् 'असङ्गोऽय पुरुष ' (सा० द० १ १५) इति मूत्रयता भगवता श्रुति-स्मृतिसिद्धान्तितमात्मनो निगुणत्वमेव प्रतिपादितम् । सुखावबोधाय लौकिकदृशा तु
'जन्ममरणकरणाना प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्व सिद्ध त्रैगुण्यविपर्ययाच्चैव ।। (सा० का० १८) इति । किमियता-'ईश्वरासिद्ध ' (साख्यद० १ ६२) इति सूत्रयतापि महामुनिना
'एव तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।
अविपर्ययाद्विशुद्ध केवलमुत्पद्यते ज्ञानम् ।।' (सा० का० ६४) इति भावनया 'विज्ञान ब्रह्म'ति रहस्यमुन्मीलितमेव । समानतन्त्रे योगे तु 'क्लेशकर्मविपाकाशयैरपरामृष्ट पुरुषविशेष ईश्वर' (यो० द० १ २४) इत्यादिना यथाप्रसङ्ग प्रणयवाचक वस्तूपक्षिप्तमेव । मीमासयोस्तु धर्मब्रह्मोपासने उपब हयद्भयामपि जैमिनि पाराशर्याभ्या वेदपुरुषव्यपदेशेन चरमभूमिकायामात्मा सुपरीक्षित एव । इत्थच-'ईक्षते शब्दम् (वे० द० १५) इत्यादिना परमाणुप्रकृतिवादादिनिरसनपुर सर वेदवमना तक-सारय योगपदार्थान् पश्य द्भिरेकमेवात्मतत्त्व निश्चेतव्यम् । अतएव
'नित्यो नित्याना चेतनश्चेतनाना
मेको बहूना यो विदवाति कामान् ।। तत्कारण साख्ययोगाधिगम्य
ज्ञात्या देव मुच्यते सर्वपाशै ॥ (श्वेता० ६१३) इत्यानि श्रुतिसवर्गेण क्वचिदभ्युपगमवादेन भिन्नप्रणालिकोऽपि तर्क साख्ययोगप्रवाहो वेदप्रणालिक्यैव नीतो नेतव्यश्च विभावनीय इति दिक् ।।
ब्रह्मा कार्यब्रह्मा चतुराननादिपदव्यपदेश्य आदि प्रथम येषा तेषामुत्पत्तिस्थितिसहारघटकाना रूपाणा त्रितयस्य त्रयस्य उपसहृति उपसहारोऽन्तर्भावो यस्मिन् स । 'सख्याया अवयवे तयप' (पा० सू० ५२ ४२) । श्रूयते च