________________
दशकण्ठवधम्
कश्चिन्मा प्रेरयत्येवमित्यनर्थ कुकल्पने ।
य प्राप्तो दृष्टमुल्लङ्घ्य स यो दूरतोऽधम ॥ ४६ ॥
कचिदिति । कश्चिद् अन्तर्यामी । माम् । प्रेरयति प्रयोजयति । इति व्यामोहमात्रम् । स हि कमर्थमभिधाय प्रेरयेद् इति तात्पर्यम् ॥ ४६ ॥
१०४
स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः ।
प्रोक्ता पौरुषशब्देन सा सिध्येच्छास्त्र सस्कृता । ४७|| स्वार्थेति । शास्त्रसस्कृता शास्त्रानुमोदिता नतूत्पथ नीता ॥ ४७ ॥ प्राकृत पौरुष वीर ! दैवनाम्ना न गीयते । तत्रालम्बितकर्तव्यः ः खञ्जः श्राण कुणिर्न किम् ॥४८॥ प्राकृतेति । वीरेति रामभद्रस्य साभिप्राया सबुद्धि । अतएवान्यत्राप्युक्तम्'उद्योगिन पुरुषसिंहमुपैति लक्ष्मी
दैवेन देयमिति कापुरुषा वदन्ति ।
दैव हित्य कुरु पौरुषमात्मशक्तया
यत्कृते यदि न सिध्यति कोऽत्र दोष ॥ '
इति । अत्र यत्ने को दोष इति विचारणीयम् । सर्वथोद्योगवता भवित
व्यमित्यर्थ ||४८||
सकलकारणकार्यविवजिता
निजविकल्पबलादुपकन्पिताम् ।
वितथदैवकथामवहेलयन्
सततमाश्रय पौरुषमात्मन ॥४६॥
॥ इति दैवनिराकरणम् ॥
सकलेति । निजविकल्पबलादुपकल्पिताम् आत्मनो विकल्पकोटे समु
स्थापिताम् ॥४६॥
॥ इति दैवनिराकरणम् ||