________________
दशकण्ठवधम् उद्यत्सच्छास्त्रसत्सङ्गसदाचारसुधोजितः ।
एष पौरुषसतानो दत्ते फलमभीप्मितम् ॥३७॥ उद्यदिति । पौरुषमेव सतान पौरुषस्य सतानो वा । सतान सततौ गोत्रे स्यादपत्ये सुरद्रु मे-इति मेदिनी ॥३७||
आलस्य यदि न भवेजगत्यनर्थः
को न स्याद् बहुविभवो बहुश्रुतो पा। एतस्मादवनिरिय ससागरान्ता
सकीर्णा नरपशुभिश्च निर्धनैश्च ॥३८॥
॥ इति पौरुषस्थापनम् ॥ आलस्येति । नरपशवो निमर्यादा | आलस्यम् एव आत्मोन्नतिविघटन स्य पर निदानमित्यर्थ ॥३॥ इहैव वासिष्ठे महारामायणे प्रथमो दिवसो व्यरसीत् । तथाच पठ्यते
"इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायतनाय विषयेऽस्तमिनो जगाम । स्नातु सभाकृतनमस्करणा जगाम
___ श्यामाक्षये रविकरेण सहाजगाम ॥" इति । एतेन साप्रत व्यास्यानताण्डवाडम्बरै सध्योपासनादि कर्म लोपयन्त सभाव्यसनिनो रागान्धा पर्यालोच्या इति । वचनव्यत्यय आर्ष ॥
॥ इति पौरुषस्थापनम् ॥
यथा प्रयत्नभू येत तथैध्येत फलैरपि ।
इति पौरुषमेवेष्टे कि दैव नाम दृप्यति ॥३६॥ पथेति । भूयेत भवितव्यम् । भावे लिड् । एवम् एध्येत एवितव्यम् । दृप्यति । हपहर्षमोहनयो । मोहन गर्व ॥३६॥