________________
तृतीयो गुच्छक
१०१ परमिति । एतत्फलितमाह-पर पौरुषमिति ॥३०॥
प्राक्तनः पुरुषार्थो मा नियुक्त इति चेतना ।
बलादधस्तात् कर्तव्या प्रत्यक्षात् प्रवला न सा ॥३१॥ प्राक्तनेति । प्राक्तन पुरुषार्थ प्रारब्धकर्मफलम् ॥३१॥
प्रत्यक्षमानमुत्सृज्य योऽनुमानेषु तिष्ठते ।
इमौ साविति प्रेक्ष्य स स्वदोभ्यां पलायते ॥३२॥ प्रत्यक्षेति । तिष्ठते इति–'प्रकाशनस्थेयाख्ययोश्च' (पा० सू० १।३।२३) इत्यात्मनेपदम् ॥३२॥
दोषः शाम्यत्यसदेहं प्राक्तनोऽद्यतनगुणैः ।
विधीयमानभैषज्यैरल्लाघोऽत्र निदर्शनम् ॥३३॥ दोषेति । उल्लाघो नीरोग । उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि-इति हैम ॥३३॥
न यातव्यमनुद्योगैः साम्य पुरुषगर्दभैः ।
उद्योगो हि यथाशास्त्रं लोकद्वितयसिद्धये ॥३४॥ न यातव्यमिति । पुरुषा एव गर्दभास्तै । लोकद्वितीयम् एष लोक परलो
कश्च ॥३४॥
प्रत्यह प्रत्यवेक्षत देह नश्वरमात्मनः ।
सत्यजेत् पशुकर्माणि साधुवानि सश्रयेत् ॥३॥ प्रत्यहमिति । पशु पामर ॥३५॥
किंचित्कान्तान्नपानादि कलित कोमल गृहे ।
वणे कीट इवास्वाद्य वयः कुर्यान भस्मसात् ॥३६॥ किंचिदिति । ऐहिकसुखपरतन्त्रो वयोयापन न विध्यादित्यर्थ ॥३६॥