________________
१००
दशकण्ठवधम
यत्नद्भिदाभ्यासः प्रजोत्साहसमन्वितैः । गिरयोsपि निगीर्यन्ते व प्राक्पौरुषे कथा ||२६||
यत्नवदिति । दृश्यवारणार्थमेव उत्साहप्रयत्नाभ्यासप्रभृतिलक्षण पौरुष
प्रपञ्चयतीत्यर्थ ||२६||
पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यभास्वराम् ।
कचित् प्राणिविशेषो हि विन्दति स्म महेन्द्र ताम् ||२७| ॥ इति पौरुषम् ॥
पौरुषेणेति । अहो | तदिद पौरुषम् इयद् वर्ण्यते यत्प्रभावेण इन्द्रशब्दार्थोऽपि महेन्द्रतायोगी । मीमासाया तु इन्द्रमहेन्द्रशब्दौ भिन्नप्रवृत्तिनिमित्तौ स्फुटावेव ||२७||
॥ इति पौरुषम् ॥
( ३ )
प्रवृत्तिरेव प्रथम यथान्याय प्रर्तिनाम् । प्रमेव वर्णभेदाना साधनी सर्वकर्मणाम् ||२८||
प्रवृत्तीति । न्याय मर्यादामनतिक्रम्य प्रवर्तिना मनोवाक्कायै व्यवहरणशीलानाम् । वर्णभेदाना शुक्लनीलपीतादिवर्णभेदाना प्रभैव सावनी तद्वत् । 'तस्माच्छास्त्र प्रमाण ते कार्याकार्यव्यवस्थितौ' ( १६।२४ ) इति भगवद्गीते ||२८||
मनसा साध्यते यच्च यथान्याय न कर्मणा । तदुन्मत्तक्रियाकल्प चेष्टन नार्थसाधनम् ||२६||
मनसेति । उभाभ्यामेव साधनीयमित्यर्थ ||२६|
पर पौरुषमाश्रित्य दन्तैर्दन्तान् विचूर्णयन् । शुभाशुभयुक्त प्राक्तनं पौरुष जयेत् ||३०||