________________
ह
तृतीयो गुच्छक
( २ ) सदेहत्वेऽप्यदेहत्वे देहिनो मुक्तता ममा ।
सोर्मित्वे वाप्यनूमित्वे वारिणो वारिता यथा ॥२०॥ सदेहत्वेति । सतरङ्गस्यातरङ्गस्य जलाशयस्य इव जीव मुक्तस्य विदेहमुक्त स्य च तुल्यैव मुक्ततेति भाव ॥२०॥
न बोधरूपयोर्भेदः सदेहादेहमुक्तयो । ___ सस्पन्दो ह्यथाऽस्पन्दो मरुदेष न चामरुत् ।।२१।। न बोवेति । दृष्टान्तस्य साकारत्वे कदाचिद् दान्तिके भ्रम स्यादिति तन्निरासार्थ निराकार दृष्टान्तमुपन्यस्यति-न बोधरूपयोर्भेद इति । नहि सस्पन्दोऽस्पन्दश्च मरुन् स्वरूपतो भिद्यत इति भाव ॥२१॥
सदेहा वा विदेहा वा मुक्तता विषये नहि ।
अनास्मादितभोगस्य कुतो भोज्यानुभूतयः ॥२२॥ सदेहेति । स्यादेतद्, यदि शरीरादिदृश्ये मुक्तता भवेदित्यर्थ ॥२२॥
सर्वमेन हि ससारे पौरुषादेव लभ्यते ।
न तादृक् किचिदप्यत्र यदलभ्यमुदीर्यते । २३॥ सर्वमिति । नित्यलब्धस्यात्मनो लाभे दृश्यवारणार्थ पुरुषार्थ प्रशसतीत्यर्थ ॥२३॥
शास्त्रोपदिष्टमार्गण यद् देहेन्द्रियचेष्टितम् ।
तत् पौरुष तत् सफलमन्यदुन्मत्तजृम्भितम् ॥२४॥ शास्त्रेति । एवस्वरूप पौरुष पौरुष भवतीति भाव ॥२४॥
प्राक्तनाद्यतने गीते पौरुषे पुरुषर्षभ ! ।
वृद्धो युनेर पूर्व हि परेण परिभ्यते ॥२५॥ प्राक्तनेति । उक्तस्वरूपमेवाद्यतन पौरुष शिथिलमूल प्राक्पौरुष पराभव तीति तात्पर्यम् ॥२॥