________________
दशकण्ठवधम् तदन्तरिति । तदन्त वासनाभ्यन्तरे । कदलीदलस्य पीठानि आधारभूता कदलीत्वच तद्वत् ॥१५॥
न भूम्यादिमहाभूतश्लेषा न च जगत्क्रमा' ।
अहो । मृताना तत्रापि तथाप्येषा जगभ्रमाः ॥१६॥ न भूम्यादीति । तत्रातिसक्तियोगेनेति पूर्वार्धस्यैवाय प्रपञ्चो लोकानास्था प्रयोजक ॥१६॥
अविद्यैव ह्यनन्तैषा नानाप्रसरशालिनी । जडाना निम्नगा दीर्घा सर्गकल्लोलमालिनी ॥१७॥
अविद्योति । 'अनित्याशुचिदु खानात्मसु नित्यशुचिसुखात्मरयातिरविद्या' (२।५) इति सूत्रिता अविद्या । तत्र दृष्टान्त -जडानामिति । जडाना मूढाना वारीणा चेति श्लिष्टम् ॥१७॥
अगाधे परमाम्भोधौ रामैताः सृष्टिवीचयः ।
भूयो भूयोऽनुवर्तन्ते पूर्णेन्दागिन चन्द्रिकाः ॥१८॥ अगाधेति । परमाम्भोधौ अपरिच्छिनात्मनि-इत्यर्थ ॥१८॥
आश्वस्तान्तःकरणो
ध्वस्तविकल्पः स्वरूपसारमयः । परमशमामृतसुहितो
विकसति विद्वान्निरावरणः ॥१६॥ ॥ इति भूयोभूयः सर्गः॥
आश्वस्तेति । आधिकारिकादिभोगवशेन शरीरवानप्यशरीरी जीवन्मुक्त इति तात्पर्यम् ॥१॥
॥ इति भूयोभूय सर्ग ॥