________________
तृतीयो गुच्छक 'पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् ।
अपञ्चीकृतभूतोत्थ सूक्ष्माङ्ग भोगसाधनम् ।।' इति ।।१।। एव मृता म्रियन्ते च मरिष्यन्तीति निश्चितम् ।
यथानासनमुत्पन्ना भूतग्रामाः पृथक् पृथक ॥१०॥ एपमिति । एव मृता-इत्यन्तेन लोकसचरणमेव व्युत्पादितम् ।।१०॥
सकल्पकल्पनाक्लुप्तमनोराज्यगिलासवत् । इन्द्रजालकलाकीर्णमिथ्यार्थप्रतिभासवत् ॥११॥ स्वप्नस वित्तिसहब्धव्योमापणविहारवत् ।
एतज्जगत्समरण स्वान्तरेयानुभूयते ॥१२॥ (युग्मकम् ) सकल्पकल्पनेत्यादि । सकल्पकल्पनेति युग्मकेन जगत्ससरणप्रक्रियाया सुखावबोधार्थ दृष्टान्तनिरूपणम् । तत्र सकल्पकल्पनाभि क्लृप्त सज्जित यन् मनोराज्य तद्विलासवद् पभोगवत् । इन्द्रजालकलाभि साम्बरमायाभि कीर्णो विस्फारित मिथ्यार्थ प्रातिभासिकवस्तुकलाप तत्प्रतिभासवत् प्रतिभानवत् । जगतो नश्वरत्वादिति तात्पर्यम् । स्वप्नसवित्त्या स्वप्रकालिकप्रकाशेन सहब्ध घटित य व्योमापण तद्विहारवत् चड्क्रमणवत् ॥११-१२॥
तत्रातिसक्तियोगेन तत्रैव धनता गतः ।
इह लोकोऽयमित्येव जीवाकाशे विजृम्भते ॥१३॥ तत्रेति । अतिसक्ति अभिनिवेश । घनता पञ्चीकरणेन दायम् ॥१३॥
पुनस्तत्रैव जन्मेहामरणाद्यनुभूतिमान् ।
मृतश्च मन्यते तत्र परलोक तथा पुनः ॥१४॥ पुनरिति । ईहा जन्मोत्तर मरणपर्यन्त चेष्टा ॥१४॥
तदन्तरन्ये भूयासस्तेषामन्तस्तथापरे । ससृज्यन्तेऽत्र ससारे कदलीदलपीठवत् ॥१५॥