________________
दशकण्ठवधम्
अथ तृतीयो गुच्छकः ।
अथ तथाभूताया समितिसुधर्माया स भगवान् विश्वामित्रः पुरोगत रामभद्र प्रीत्येदमभ्यभाषत-ये । ज्ञानवता वर !! भवता स्वबुद्धव सर्वं व्यज्ञायि | केवल स्वभावशुद्ध भावत्के प्रतिभाने मुकुरे मनाङ्मार्जनमिव स्तोकमुपदेशासञ्जनमुपयुज्यते । श्रहो ! मुनिवृन्दिष्ठा: ! " ज्ञेय ज्ञातमनेन रघुवीरेण यदस्मै सुमेधसे रोगा इव भोगा न रोचन्ते ॥ १ ॥
६४
अथेति । अथ रामभद्रस्य परितापनिवेदनानन्तरम् । समितिरेव सुधर्मा देवसभा तस्याम् । अये इति कोमलामन्त्रणे अव्ययम् । व्यज्ञायि अवेदि । प्रतिभाने ज्ञाने । श्रसञ्जनम् आसङ्ग ॥१॥
ज्ञातज्ञेयस्य मनसो नूनमेतद्धि लक्षणम् ।
नस्वदन्ते यदेतस्मै भोगा स्वर्गागिता अपि || २ ||
ज्ञातेति । स्वदन्ते रोचते ||२||
भोगवासनया बन्धः शान्तया यस्य ताननम् । सनातनव राम ! मोक्ष इत्युच्यते बुधैः ||३||
भोगेति । वासना शुद्धा मलिना चेति प्रागुक्तम् । तत्र शुद्धामभिप्रेत्य ससारयात्रासूत्रमेतत् ॥३॥
इदानी केवली भावविश्रान्ति समपेक्षते ।
रामबुद्धिः शरलक्ष्मीः स्वभावसुषमामि ||४||
इदानीमिति । केवलीभाव कैवल्यम् । तत्र विश्रान्ति विश्रमम् । रामबुद्धि शरल्लक्ष्मीरिति व्यस्तरूपकम् । स्वभावसुषमामात्मप्रसादम् ||४||
अङ्ग ! भगवन् !! वसिष्ठ !!" अस्य महात्मनो मनोविश्रान्त्यै रघुकुलगुरुणा श्रीमतैव युक्त. प्रस्तूयन्ताम् । कच्चित् स्मरसि ब्रह्मयोने ! यदावयोर्वैरोपशमाय निश्रयसाय च निषधाद्रौ भगवता ब्रह्मणा स्वय