________________
तृतीयो गुच्छक
६५ मुपदिष्ट ज्ञानम् । येन च युक्तिमता 'भास्मता श्यामेन ससारवासना सद्यः शममुपयाति । एव प्रणयपेशल व्याहरति विश्वामित्रे तत्र ममवेताः सर्ने तमेवार्थमभिननन्दु । तदनु वमिष्ठोऽपि त्रिकालदर्शी महातेजाः-अङ्ग । सकलपिकल स्मरामीति हर्षमाणो ब्रह्मनिष्ठ ब्रह्मोपज्ञ ब्रह्मोद्य तज्ज्ञानमुपदेष्टुमुपाक्रमत--॥५॥
अङ्गति । श्रीमतेत्यत्र तपोज्ञानसमृद्धि श्रीशब्दार्थ । प्राशस्त्ये मतुप् । येन ब्रह्मोपदिष्टज्ञानेन । ब्रह्मनिष्ठ ब्रह्म कारणरूपम् । ब्रह्मोपज्ञ ब्रह्मा कार्यब्रह्मा । 'उपज्ञोपक्रम तदाद्याचिख्यासायाम् (पा सू २।४।२१) इति समास । ब्रह्म उपनिषद उपचारात् तद्वदनम् । निरूपणमिति यावत् । वद सुपि क्यप च ।।५।।
रामभद्रण प्रथमपरितापादौ-'किं नामेद बत सुख येय ससारसगति । जायन्ते मृतये यत्र म्रियन्ते जातये जना ॥' इत्यादि यदुक्त तद् यथाप्रतिपत्ति सौकर्यमभिधातु भगवान् वसिष्ठ - 'परमार्क-' इत्यादिना समुपक्रमते
परमार्कप्रकाशान्तस्त्रिलोकीत्रसरेणवः ।
उत्पत्योत्पत्य ये लीनास्ते ह्यसख्या रघूत्तम ! ॥६॥ परमार्केति । हे रघूत्तम । रघषु अवतसभूत । राम ॥ परम अपरि छिन्न अर्कप्रकाश आत्मप्रकाश । अनस्तमितभात्मक इति यावत् । एव च आत्मा चासौ प्रकाशश्चति व्यक्तमेव । श्रूयते च मुण्डके"न यत्र सूर्यो भाति न चन्द्रतारक
नेमा विद्यु तो भान्ति कुतोऽयमग्नि । तमेव भान्तमनु भाति सर्व
तस्य भासा सर्वमिद विभाति ॥” (मु ड २ ख ११) इति । एवभूतस्य परमार्कप्रकाशस्य अन्त अवकाशे । ये त्रिलोकीत्रसरेणव त्रयो लोका एव परिच्छिन्नप्रमाणतया त्रसरेणुकल्पा । त्रसरेणुस्तु
'जालान्तरगते भानौ यत् सूक्ष्म दृश्यते रज । प्रथम तत् प्रमाणाना त्रसरेणु प्रचक्षते ॥'