________________
नानादेशगतै नर्जिनकथापीयूषपानेप्सुभि-, जैनाऽजैनगतस्य यस्य मुखतो नित्यं कथा श्रूयते । यस्यास्ते नितरां विहारकरणं लोकोपकाराय च, तं पायादृषभो जिनो विषयतः पुष्पेन्दुसंज्ञं मुनिम् ॥ ६ ॥ यद्वाणी च सदा सुधारससमाऽविद्यान्धकारापहा, यच्छीलेन जना मुदं च मनसा संलब्धवंतः पराम् । यत्कीर्तिर्विशदा दिगन्तवितता राराज्यमाना सदा, अव्यात्तं जिनराजभक्तिनिरतं श्रीपुष्पचंद्रं जिनः ॥ ७ ॥ शास्त्रोद्यानसुतत्त्वविन्नरवरैर्वन्द्यो भृशं योऽनिशं, साधूनां प्रवरो निरस्तविषयो यस्यानुरागो गुरौ । गंगानीरसमस्समुज्वलतरो यस्यास्ति नीतिमतौ . सः श्रीपुष्पविधुर्मुदा विजयतां सर्वार्थसिद्धिप्रदः ॥ ८ ॥ साधुसेवानुरक्तेन, चन्द्रशेखरशर्मणा । कृतं पुष्पाष्टकञ्चैतत् , पुष्पेन्दुभक्तिहेतवे ॥ १ ॥
इति श्रीकाशीस्थपण्डितचन्द्रशेखरशर्मा
व्याकरणन्यायाचार्यविरचितं
___ पुष्पाष्टकं सम्पूर्णम् ---000OOOOOO---- ॥ श्रीः॥
१२-११-१९५४ श्रीमतां श्रद्धेयानां पुष्पभिक्षुवर्याणां
-स्तवःयदीयवचनावलिर्विकृतभावनानाशिनी । कुबुद्धिकुमुदावलीरविरजस्रमुद्यत्प्रभा ॥ सुधारसमयी परा सुजनमानसोल्लासिनी। सदा मुनिवराग्रणीं जगति पुष्पभिक्षु स्तुमः ॥१॥ करालकलिकालजाविरलमोहवात्योच्चयैरुपस्ततनुरप्यसौ सुजनभक्तसार्थो ह्ययम् ॥ स्वकोपदिशनेन वै य अनिशं निरस्यद् व्यथां । सदा मुनिवराग्रणीं जगति पुष्पभिक्षु स्तुमः ॥ २ ॥