________________
२४
अथ श्रीपुष्पाष्टकम्
वीराय ज्ञातपुत्राय, महावीराय तायिने । जिनाय वर्धमानाय, श्रमणाय नमो नमः ॥ १ ॥ यस्य दुर्वासना शान्ता, शान्तेच्छो यो मुनीधरः । तस्मै फकीरचन्द्राय नमोऽस्तु शिवमूर्तये ॥ २ ॥ यस्य शिष्यस्सदाचारी, पुष्पेन्दुमुनिसंज्ञकः । शास्त्रतत्त्वविशेषज्ञ, स्तस्मै ज्ञानात्मने नमः ॥ ३ ॥ दुःखभाजां नितान्तं यो, दुःखान्धतरणिर्मुदा । तस्मै नमोऽस्तु शान्ताय, जिनेशपदसेविनं ॥ ४ ॥ शार्दूल क्रीडितवृत्तम्
श्रीमद्देवजिनेन्द्रपादयुगलाऽम्भोजार्चनाऽऽमरुधीः, संसाराम्बुनिधौ निममजनतोद्धाराय पोतोऽस्ति यः । जैनाचारवतामबोधहरणे भास्वत्समो ज्ञानविद्-, भक्ताऽज्ञानविनाशकृद्विजयतां श्रीपुष्पचन्द्रो मुनिः ॥ १ ॥ यस्यान्तःकरणे दयोन्नतिकरी विज्ञानमात्मन्यदः, संसारोरगभीतिहृज्जनपदाऽशेपार्तिहो योऽनिशम् । शान्तो यो निजधर्मरक्षणपरो स्वाध्यायध्याने रतः, सोऽयं साधुशिरोमणिर्विजयते पुष्पेन्दुसंज्ञो मुनिः ॥ २ ॥ भिक्षायाचनहेतवे गृहवतां येषां गृहे प्रति य-, स्तेषां पापचयं प्रयाति रविणा नैशं यथा ध्वान्तकम् । सारासार विचारणे च नितरां लक्षं मनो यस्य हि, श्रीमान्पुष्पशशी मुनिर्विजयतां सः श्रीगुरोस्सेवकः ॥ ३ ॥ मुक्तत्यर्थ यतते च यो जितरिपुः श्राद्धार्चितान्जानिको ज्ञानाचाररतो विशुद्धमनसां पादाम्बुजालिः सदा । जीवापदविनिवारणेऽतिकुशलस्वीयाऽमरेशे मतिः, सोऽयं को जयतान्मुदा मुनिवरः पुष्पेन्दुशेो मुनिः ॥ ४ ॥ दूरं दुःखचयं व्रजेश्च सुतरां यद्दर्शनात्कर्म्मजं, यद्वाचा जनतामनः कलुषतां त्यक्त्वा विशुद्धं भवेत् । यस्यास्ति भ्रमणं हिताय च सतां नाशाय दुःखाम्बुधैः, स श्रीपुष्पमुनिस्सदा विजयतां कल्याणमूर्तिर्भृशम् ॥ ५ ॥