________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
नायक
सर्वार्थसिद्धिः इति जीवत्वस्यावस्थारूपत्वोक्तेः ; मुक्तस्यैव हिरण्यगर्भादिदेहाधिष्ठानेन सृष्टिस्थित्यादिहेतुत्वमिति सर्वपुराणादिसामरस्यमिति ; तदपि मन्दम् ; एकस्यैवानाद्यन्तस्य सर्वमुक्तोपसृप्यत्वश्रवणात्,
" मम साधर्म्यमागताः"
स्वातन्त्र्यमतुलं प्राप्य तेनैव सह मोदते । इत्याधुपबृंहणविरोधाच्च ।
सायुज्यं प्रतिपन्ना ये तीव्रभक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवन्ति निरुपद्रवाः ॥
इति च भगव'दुाक्तः। मोक्षधर्मे च “ अनेन साम्यं यास्यामि" इति मुमुक्षोरभिसन्धिवचनम् । प्रपञ्चितं चैतत्परेण परधर्मीव भवत्येष समेत्य वै ।
___ आनन्ददायिनी हिरण्यगर्भाधधिष्ठातृत्वं दृश्यते, न चान्यो जीवो जीवान्तरमधिष्ठातुं समर्थ इत्यत्राह -मुक्तस्यैवेति । सङ्कल्पमात्रेण सजतोऽधिष्ठातृत्वोपपत्तरिति भावः । 'मुक्तोपसृप्यव्यपदेशाच्च' इति सौत्रहेतुना निराचष्टेएकस्यैवेति । ममेत्यादि । मुक्तेभ्योऽपि भेदावगमादिति भावः । ननु उपबृंहण एव स्वातन्त्रयमतुलत्वेन विशेषितं, तथा च प्राप्यस्य यत् स्वातत्रयं तादृशमिति लभ्यते । तत् स्वातन्त्रयं च सृष्टिसंहारकर्तृत्वमेव, भेदवादश्च कथं चिन्नय इत्यत्राह--सायुज्यमिति । नित्यं किङ्करा इति युक्तं, न तु नित्यं निरुपद्रवा इति, व्यवधानात् । नन्वत्र साम्यशब्द ऐक्यपरोऽस्त्वित्यत्राह-प्रपञ्चितामिति । परेण समेत्य परधर्मीव ___1 दुक्तेः-घ. 2 परधर्मेण भवत्येष-परधर्मे च भवत्येष-परधर्मी च-पा. डानं र-ग.