________________
सरः ३] मुक्तस्य जगत्कारणत्वशङ्कापरिहारपूर्वक सर्वककेश्वरसमर्थनम्
सर्वार्थसिद्धिः
इत्यादिभिः एकस्य च सर्वप्रशासितृत्वं निस्सीमत्वं च श्रुतिस्मृतिशत सिद्धम् । अपि च मुक्तास्सर्वे किं संभूय जगत् सृजन्ति उत प्रतिनियतकार्याः ? नाद्यः ; " स यदि पितृलोककामः " इत्यादिभिरव्यवस्थितेच्छादृष्टेः, सर्वेषामेकरूपेच्छा क्लृप्तौ गौरवात्, तथा चाश्रवणात् । न द्वितीयः ; " इदं सर्वमसृजत" इत्यादिभिरेकस्य सर्वकर्तृत्वोक्तेः । समुदायैकत्वविवक्षा तु क्लिष्टा निर्मूला च; श्रुत्या क्लृप्त्या वा तदयोगात् । अतः " पतिं विश्वस्यात्मेश्वरम् ” इति श्रुत एक एव सर्वकर्तेश्वरः ॥
7
आनन्ददायिनी
परमात्मेव भवतीत्यर्थः । एकस्य चेति ।
' एको देवस्सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । एक शास्ता न द्वितीयोऽस्ति शास्ता' इत्यादिभिस्सिद्धमित्यर्थः । स यदीति —–यदिशब्देनाव्यवस्थाप्रतीतेरित्यर्थः । ननु च श्रुत्यैवैकरूपे - च्छावत्त्वमुच्यत इत्यत्राह - अश्रवणादिति । इदं सर्वमिति । यद्यपि प्रथमपक्षेऽपीदं दूषणमस्ति तथाऽपि दूषणान्तरस्य सत्त्वात्तदुक्तमिति
"
ध्येयम्। ननु क्वचित् क्लिष्टाऽप्यभ्युपगम्यत इति चेत्तत्राह-निर्मूला चेति । यत्र प्रमाणमस्ति तत्र क्लिष्टाऽप्यङ्गीकार्येति भावः । ननु प्रकृतेऽपि तदस्त्वित्याशङ्कय किं तत्कल्पने श्रुतिरस्ति उत युक्तिरिति 'विकल्प्य तदुभयमपि दूषयति — श्रुत्येति । तदभावादिति भावः । नन्वीश्वरस्य प्रयोजनाभावान्न कर्तृत्वामिति जैनोद्गारमनुसृत्य 'जीव एक एव कारणं इति युक्ति
-
1 विकल्याचं द्वितीयं च दू-ग. 2 जीवा एव कर्तार इति - ग. बशादे - ग.
3 युक्ति