________________
सरः ३]
मुक्तात्मनो जगत्कारणत्वाशङ्का
सर्वार्थसिद्धिः
कत्वात्, अपहतपाप्मत्व सर्वज्ञत्वादीनां च तस्मिन्नवस्थाभेदेनोपपत्तेरिति ; तन्न ; “यथोर्णनाभिस्सृजते गृह्णते च" इति प्रथमोक्तदृष्टान्तवैघट्यात् । प्रकृतिं पुरुषं चैव प्रविश्यात्मेच्छया हरिः । क्षोभयामास संप्राप्ते सर्गकाले व्ययान्ययौ ||
इति पुरुषस्यापि पराधिष्ठानेन जगत्सृष्ट्युपयोगोक्तेः । न च जीवस्य सवर्तसमय संहृतकरणकलेबरस्य मुख्येक्षणादिसंभवः । मुक्तस्तर्हि प्रकृतिपुरुषयोरधिष्ठाता स्यात् तस्य सत्यसंकल्पस्य स्वेच्छया पितृलोकादिविचित्रकार्यस्रष्टृत्वाम्नानान्मुख्येक्षणसिद्धेः । जीवान्यत्ववादाश्च बद्धान्यत्वविषयाः स्युः ।
ममैवांशो जीवलोके जीवभूतस्सनातनः ।
5
आनन्ददायिनी
(1
पाप्मत्वं कथमित्यत्राह - - अपहतेति । यथा सतः पुरुषात् " इत्यत्रापि परमात्मैव चेतनद्वाराऽधिष्ठाय जनयतीति न तद्विरोधोऽपीत्याहप्रकृतिं पुरुषं चैवेति । यथाऽचेतनस्येक्षणाद्ययोगात् न कारणवाक्यप्रतिपाद्यत्वं तथा जीवस्यापीत्याह--न चेति । ननु जीवस्य मुख्येक्षणानुपपत्त्या न कारणत्वमिति शङ्कते ---मुक्तस्तति । किंच तस्यैव कारणत्वं युक्तम् ; कचित् सङ्कल्पमात्रेण सष्टौ कारण त्वस्याङ्गीकारादित्याह --" तस्येति । ननु ' पृथगात्मानं ' इत्यादिभेदश्रुतेः कथमेवमित्यत्राह--जीवान्यत्ववादाचेति । ममैवेति । अन्यथा ' जीवभूतस्सनातनः' इति विरुध्येतति भावः । ननु जगत्कारणस्य
2
1. त्वाङ्गी - ग.
2
तस्य चेति - ग.