________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः इति । अतस्साक्षात् संकल्पाश्रयत्वम् , व्यवधानेन तु. विकाराश्रयत्वमिति सर्वाविरोधः । ननु सद्विद्यायां मृत्पिण्डलो. हमणिनखनिकृन्तनदृष्टान्तैः " यथा पृथिव्यामोषधयस्संभवन्ति" इत्याथर्वणिकवाक्याचाचेतनमात्रोपादानत्वं जगतः प्रतीयत इति चेन्न; मृत्पिण्डादिनिदर्शनानामेकविज्ञानेन सर्वविज्ञानस्यासंभवचोद्यपरिहारपरत्वात् , " यथा पृथिव्याम् "इति वाक्यस्य त्वेकस्माद्विचित्रानन्तोत्पत्तिसंभवार्थत्वात् । न तु चेतननरपेक्ष्यमेतैस्सू'च्यम् ; अन्यथा '' यथा सतः पुरुषात्केशलोमानि ” इति चेतनसन्निधिसापेक्षोत्पत्तिनिदर्शनायोगात् । अस्तु तर्हि तद्वदयस्कान्तादिनयेन निर्व्यापारपुरुषसन्निधानात् प्रकृतेः प्रवृत्तिः, सर्वस्य च कार्यजातस्य जीवकर्महेत
आनन्ददायिनी विरोधपरिहारं चाभिप्रेत्याह-~-अत इति । ननु सदादिशब्दानां चेतनपरत्वे स्वावान्तरवाक्यविरोधादाथर्वणवाक्यविरोधाच्चक्षणं गौण नेतव्यमिति शङ्कते--नन्विति । सद्विद्यावाक्यगतनिदर्शनस्याविरोधं दर्शयति-मृत्पिण्डादीति । तावताऽपि प्रकृतोपपत्तेरिति भावः । एकस्मादिति- लोमानीत्यचेतनस्योपादानताप्रतिपादने न तात्पर्यमिति भावः । उक्तार्थ उपपत्तिमाह--यथा सत इति । सतश्चेतनत्वेऽपि स न जीवः, किंत्वीश्वर इत्यानन्दमयाधिकरणसिद्धार्थ वक्तुं जीवपरत्वं शङ्कते--अस्त्विति । सतः पुरुषात् केशलोमानीति वाक्यप्रतिपाद्यस्य पुरुषस्य निर्व्यापारस्यापि सन्निधिमात्रेण केशादिविकारवदित्यर्थः । तत्रोपष्टम्भकान्तरमाह--सर्वस्य चेति । कर्मवश्यस्यापहत
1 च्यते-घ. 2 'लोमानीति' इति न दृश्यते-ग कोशे.