________________
॥ श्रीमते हयग्रीवाय नमः॥
॥ श्रीमते निगमान्तमहादेशिकाय नमः ॥ आनन्ददायिनीव्याख्योपेतसर्वार्थसिद्धयाख्यवृत्त्या सहितः तत्त्वमुक्ताकलापः
तृतीयो नायकसरः
तत्त्वमुक्ताकलापः व्याप्तयाद्यव्याकुलाभिः
सर्वार्थसिद्धिः तदेवं प्रत्यगर्थद्वये प्रथमोद्दिष्टो जीवश्चिन्तितः । अथेश्वरश्चिन्त्यते । तत्र तावत्प्रमाणविशेषात् सिद्धिं प्रस्तौति-व्याप्त्याद्यव्याकुलाभिरिति। धर्मप्रवृत्तियुक्तसर्वदेशकालव्यापितयाऽन्यथाकरण
आनन्ददायिनी 1देवि! त्वां मम वल्लभेति निगमाः स्त्रीपूत्तमामब्रुवन्
देव ! त्वां मम पादचिह्नघटितोरस्क परं तेऽवदन् । इत्येवं वृषशैलनित्यगृहिणोनर्मोक्तिपारम्परी __ अस्माकं दिशतादनन्तमसकृत्कल्याणपारम्परीम् ।।
उद्देश क्रमात्संगतिरित्याह-तदेवमिति । तस्मात् प्रथमोद्दिष्टत्वादेव हेतोरित्यर्थः । उद्देशे वा किं नियामकमित्यत्राह-अथेति । धर्मस्य धर्म्यनन्तरभावित्वात् बुद्धश्चेतनधर्मत्वादिति भावः । लक्षणप्रमाणाभ्यां वस्तुसिद्धिः, तत्रापि प्रमाणेन सिद्धे वस्तुनि लक्षणाद्वयावृत्तिसिद्धिरिति प्रथम श्रुतिप्रमाणसिद्धमाह--तत्र तावदिति। वृद्ध___ 1 देत्वं-ख. 2 वृषशैलशृङ्गगृहिणोनोक्ति-ग. वृषशैलनित्यगृहिणीनमोक्तिक.ख. क्रमस्सं-क. ख.