SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सन्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः श्रुतिभिरधिगतो विश्वनेता सर्वार्थसिद्धिः शङ्कानहर्हाभिरित्यर्थः । यद्वा अनुमानवद्याप्तिपक्षधर्मतानिरूपणजनितव्यभिचारसंभवादिरहिताभिरिति । श्रुतिभिरिति भ्रमादिमूलत्वासंभवख्यापनम् । शब्दानां सिद्धे व्युत्पत्तिस्तत्र तात्पर्य च साधयिष्यते । विश्वनेता-विश्वेषां यथेष्टं विनियोक्ता । स कथं श्रुतिभिरधिगतः ? कारणवाक्येषु सदादिशब्दैः । तद्धेदं तमुव्याकृतमासीत् ' इत्यादिप्रदर्शितस्याव्यक्तापरपर्यायस्य प्रधानस्याभिधानादिति चेत् , तन्न ; अव्यक्तस्य " तदैक्षत" " सोऽकामयत" इत्याधुक्तस्वसङ्कल्पपूर्वकसृष्टया द्यसंभवात् । न खस्वीक्षणादिशब्दो भाक्तः ; मुख्य बाधकामावस्य साधकभूयस्त्वस्य च शारीरके स्थापितत्वात् । 'सदेव सोम्येदमग्र आसीत् ' इत्याद्यचेतनसामानाधिकरण्यात् कारणमचेतनमिति चेन्न ; सामानाधिकरण्यस्य आनन्ददायिनी प्रसिद्धिप्राचुर्यादाह-यद्वेति । श्रूयत इति श्रुतिरिति नित्यतावगमादित्यभिप्रायेणाह-भ्रमादीति । ननु कार्यार्थ एव शब्दानां व्युत्पत्तेः सिद्धे ब्रह्मणि श्रुतिः कथ प्रमाणं स्यादित्यत्राह-शब्दानामिति । बुद्धिसर इति शेषः । ननु श्रुतिवाक्ये जडकारणत्वप्रतीतेः कथमीश्वरसिद्धिरित्याशङ्कय ईक्षत्यधिकरणादिन्यायैस्तत्सिद्धिं स्मारयति-स कथमित्यादिना। शारीरक इति । 'गौणश्चेन्नात्मशब्दात् ' (ब्र. सू. १-१-६) इत्यादिभिरित्यर्थः । ननु चेतन परत्वे ह्यचेतनवाचिशब्दसामानाधिकरण्यं न स्यादिति शङ्कते-सदेवेति । सच्छब्दः सूक्ष्माचिद्विशिष्टचित्पर इति परिहरति-सामानाधिकरण्यस्येति । विशिष्टवाचि 1 बयोगात्-घ. 2 परत्वेऽप्यचे-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy