________________
300
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
व्यूहेषु कैमत्यदिषु विभवेष्वपि के
पूर्ण
तत्त्वमुक्ताकलापः व्यूहे संकर्षणादौ गुणनियतिरभिव्यक्तिवैषम्य मात्रा
सर्वार्थसिद्धिः व्ययात्मा" इत्यादिप्रसिद्धमिह प्रतिसन्धेयम् । प्रतिनियतगुणद्वन्द्वोक्तेरन्यथासिद्धिमाह-व्यूह इति । अयं भावः
निगूहनं चतुष्काणां द्वन्द्वानां च प्रकाशनम् । पाड्गुण्यस्य तथाभूतसमाधिस्थोपयोगतः ।।
मोहनशक्त्या मनुष्यादिसजातीयशङ्कास्पदेषु विभवेष्वपि हि सिद्ध षाड्गुण्यम् । व्यूहेषु कैमुत्यसिद्धम् । सर्वेष्वपि हि भगवत्त्वं पूर्णत्वं च प्रख्याप्यते । संकर्षणादौ व्यवस्थया गुणद्वन्द्वाभिव्यक्ते गुणचतुष्कान्तराणामनभिव्यक्तेश्च विशेषनिर्देशोपपत्तिरिति । “न कर्मणा वर्धते नो कनीयान् " स न साधुना कर्मणा भूयान् नो एवा
आनन्ददायिनी व्यवस्थायाश्चानुपपत्तरिति भावः । 'अजोऽपि सन् ' इति गीतायां स्पष्टमुक्तरित्यर्थः । ननु षाड्गुण्यं क्वचिदभिव्यक्तं चेत् सर्वदा सर्वत्राभिव्याक्तः स्यात् । न चेत्कदाचिदपि कुत्रापि न स्यात् । न च जीवापहतपाप्मत्वादितुल्यता, जीवेऽभिभावककर्म सत्त्वेन तदुपपत्तेः । तद्वद्भगवतः कर्मवश्यत्वाभावादित्याह-अयं भाव इति । तथाचानभिव्यक्तेरन्यकारणत्वान्न भगवतः कर्मवश्यत्वमिति भावः । निगृहनं चेति । षड्गुणस्य षण्णां गुणानां मध्ये, पात्रादित्वात साधुः । चतुष्काणां चतुर्णा निगूहनम् । स्वार्थिकः कः । द्वंद्वानां-क्रमेण द्वयोरि. त्यर्थः। समाधिस्थोपयोगतः-तथाभूतसमाधिनिष्ठपुरुषानुग्रहायेत्यर्थः । भगवत्वं षाड्गुण्यम् । सर्वत्र पूर्णत्वे प्रमाणमाह-न कर्मणा वर्धत
1 नो चे-ग. सत्त्वे तदु-ग.