________________
सर. ३]
परब्यूहादिभगवद्रूपपञ्चकस्यापि पूर्णपाड्गुण्यवत्त्वसमर्थनम्
299
तत्त्वमुक्ताकलापः साधुत्राणादिहेतोस्तदुचितप्तमये विग्रहांशः स्वकीयैः
स्वेच्छातस्सत्यरूपो विभुरवतरति स्वान गुणौघाननुज्झन् ।
सर्वार्थसिद्धिः यद्यपि भगवतो गुणविग्रहादियोगस्सत्यः, तथाऽपि षाड्गुण्यस्य व्यापित्वमयुक्तम् ; विभवेषु विपरीतदृष्टेः, 'व्यूहेषु च सकर्षणादिषु ज्ञानबलादिगुणद्वन्द्वनियमोक्तरित्यत्राह-साधुत्राणेति । “ अजोऽपि सन्न
आनन्ददायिनी व शीघ्रोपस्थितिकतयोहादौ ग्रहो न तत्परित्यागो मानाभावात् । केचित्तु विशेष्यभेदाभावेऽपि विशेषणप्रयोगादुद्देशे ऊहे च नियम उपपद्यते । प्रदानभेदश्च विशेषणप्रयुक्तभेदमादायैव, अन्यथा विशषणवैयदिति वदन्ति । तस्मान्न तद्वशेन देवताद्यभिलाप इति भावः । अन्यत्रेति । तदुपर्यपि बादरायणः सम्भवात्' इत्यधिकरणभाष्यादावित्यर्थः । आदिशब्देन गुहादयो विवक्षिताः । मुलं-हविरनुभवनं-हविर्ग्रहणं तद्भक्षणम् । यौगपद्यं सन्निधेः-युगपन्नानादेशेषु सन्निधानम् । प्रीतिः-देवतायाः कर्मजन्या प्रीतिः । फलस्य दानंफलप्रदानमित्यर्थः ॥ ६८ ॥
विग्रहादिनिराकरणपरिहारः.
प्रसङ्गादाह-यद्यपीति । हेतुमाह-विभवेष्विति । सार्वत्रिकत्वे रामकृष्णादिष्वज्ञानाशक्त्यादिदर्शनस्यानिरुद्धादिविभवेषु
1 ब्यूहेषु स-पा.