________________
सर. ३]
देवतासामान्यविषयकविग्रहादिशून्यत्ववादिमतस्य निरासः
.97
तत्त्वमुक्ताकलापः तत्तद्विध्यर्थवादप्रभृतिभिरविदुस्तत्परैरेव शिष्टाः
सर्वार्थसिद्धिः शब्देन मन्त्राणां स्मृतीतिहासपुराणादीनां संग्रहः । अप्रधानेऽप्युपयुक्ते तात्पर्यमस्त्येवेत्यभिप्रायेण तत्परैरेवेत्युक्तम् | देवताधिकरणे च विग्रहादिनिरासो न सूत्रोक्तः । प्रयोजकाप्रयोजकविभागमात्रं तु न विग्रहादि
आनन्ददायिनी शेषत्वात् कथं विग्रहादिपरत्वमित्यत्राह-अप्रधानेऽपीति । 'यन्न दुःखेन' इत्यादेरर्थवादस्य विध्यनुगुणस्वार्थे तात्पर्याङ्गीकारादिति भावः । ननु 'देवता वा प्रयोजयेदतिथिवत्' इति विग्रहादिमत्त्वे देवताया एव यागप्रयोजकत्वं स्यात् , यथाऽतिथेरातिथ्यप्रयोजकत्वम् । तथा च देवताधिकरणविरोध इत्यत्राह-देवताधिकरणे चेति । 'अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्यात्' इति सूत्रेण देवताया आर्थप्राधान्येऽपि विधिवाक्येन स्वर्ग साधनतया कर्म कर्तव्यतया चोदित पुरुष प्रवर्त्तयतीति प्रयोजकत्वतदभावचिन्ता तत्र क्रियते ; न तत्र विग्रहसत्त्वासत्त्वविचार इति भावः । ननु विशेषातिदेशलक्षणे 'विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् ' इत्यधिकरणे द्रव्यदेवतयोस्साम्ये द्रव्यबलीयस्त्वसमर्थनं देवतासत्त्वे न स्यादित्यत्राह
1 णाना च संग्र-पा.
साधकत-ग.