________________
296
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः देहादिर्देवतानां हविरनुभवनं सन्निधौग
पद्यं
-
प्रीतिर्दानं फलस्याप्यसदिति कथयन्त्यर्धलो. कायतस्थाः ।
तत्राध्यक्षादिदूरस्वमहिमसदृशाशेषवैशिष्टय - मासां
सार्थसिद्धिः अत्र प्रसङ्गात् सर्वदेवतानां विग्रहादिपञ्चकनिरासं परिहतु तमनुभाषते-देहादिरिति । आदिशब्देन इन्द्रियभोग्यभोगोपकरणादिसङ्ग्रहः । अर्धलोकायतमतम् –कर्माराध्यापह्नवमतम् । एतत्प्रतिक्षिपति-तत्रेति । तस्मिन् पक्षे प्रतिक्षेप्ये सतीत्यर्थः । अध्यक्षादिदूरत्वोक्तिः यूपादित्यैक्यादिवन्नात्र बाधप्रसङ्ग इति ज्ञापनार्थम् । स्वमहिमसदृशत्वोक्तया स्वपरोपयोगिसाधनानुगुण्यसूचनम् । अशेषशब्देन तत्तदाराध्यप्रतिनियतविग्रहतदनुबन्ध्यस्त्रादिसर्वसंग्रहः । प्रभति
आनन्ददायिनी सङ्गतिः स्पष्टेत्याह-अत्रेति। आदिशब्देन भोगस्थानादेहः । कर्माराध्येति । मीमांसकमतमित्यर्थः । स्वपरोपयोगेति । देवतानामतिमहिमतया तद्विग्रहादीनां स्वपरोपयोगहेतुत्व मस्तीति भावः । तदनुबन्धीनि इन्द्रियाणि । आदिशब्देन देशादेर्ग्रहः । प्रभृतिशब्देनेति । तेषु विग्रहादिमत्त्वश्रवणादिति भावः । ननु मन्त्रार्थवादादीनामन्य
1 दिसंग्र-पा.
'मस्त्विति-क.