________________
21 तस्मादेवंविधानेकवाधशङ्कापनुत्तये । नित्यनिर्दोषशास्त्रैकवेद्यत्वमिह सूचितम् ॥ २५ ॥ शब्दप्रमाणके तस्मिन् यथाशब्दं व्यवस्थितिः । सर्वैरनतिलचयति न शङ्कातङ्कसंभवः ।। २६ ॥
(23 श्लो-व्या, पुटं 113) न हि वस्तु विकल्प्येत न विरुद्धसमुच्चयः। न चोभयपरित्यागो विहतिं जहतः क्वचित् ॥ २७ ॥
(47 श्लो-व्या, पुटं 206) अविधेयमनाधेयमशेषमधिकं समम् ।। नति वस्तुपरिच्छेदाभावस्स्याद्विश्वदेहिनः ॥ २८ ॥ यस्तु वस्त्वन्तराभावमपरिच्छित्तिमिच्छति । कथितोऽसौ कथानहः क्षीवोन्मत्तैडमूकवत् ॥ २९ ॥ किंच संख्यापरिच्छेदराहित्यं किं न दृश्यते । मानबाधाद्यदि समं निर्बाधेऽर्थे स्थितिः स्थिता ॥ ३०॥
(47 श्लो.-व्या, पुटं 210-11) मिथ्यात्वस्य हि मिथ्यात्वे मिथ्यात्वं बाधितं भवेत्। सत्यत्वस्य तु सत्यत्वे सत्यत्वं स्थापितं भवेत् ॥ ३१ ॥
(49 श्लो. व्या, पुटं 218) दृक्सम्बन्धश्च दृश्यानामसत्यत्वे विवक्षितः। सत्यत्वादिविकल्पेन सीदत्यनुपपत्तिमान् ॥ ३२॥
(50 श्लो.-व्या, पुटं 225) संबन्धफलसिद्धौ च स्वरूपे दुरपह्नवे । अन्तर्भावबहिर्भावविवादस्त्विह निष्फलः ॥ ३३॥ ये च दृग्दृश्यसंबन्धे संयोगादिविकल्पतः । दोषाः प्रलपितास्तेऽत्र दृश्याः सत्यत्वभीरवः ॥ ३४॥ संबन्धमात्रदीर्घट्यात्तद्विशेषोऽपि दुर्घटः।। इति चान्धस्य जात्यन्धयष्टिदानोपमं विदुः॥ ३५॥
(50 श्लो.-व्या, पुटं 226) मिथ्यात्वेन च दृश्यत्वं स्वतस्संबन्धि साधयन् । अप्रामाण्यस्वतस्सिद्धिमुद्रित्यनया गिरा ॥ ३६॥
__(60 श्लो.-व्या, पुटं 228,