________________
20
विश्वणुप्रतिषेधेन मध्यमं च निषेधता । सर्वासत्त्वं च दुस्साधं सदसत्त्वविकल्पतः ॥ १२ ॥ समस्तमूर्तसंयोगस्संभवेद्यस्य तद्विभु। तत्संभवोज्झितं द्रव्यं महत्त्वाणुत्वचित्रितम् ॥ १३ ॥ अणोरणीयान्महतो महीयानित्यनुश्रवः । विश्वव्यापित्वतात्पर्यान्न मिथो बाधमृच्छति ॥ १४ ॥ यदल्पपरिमाणेन पृथूनां ग्रसनं श्रुतम् । अचिन्त्यमिदमित्यके चिन्तनश्रमभीरवः ॥ १५ ॥
(1 श्लो. व्या, पुटं 13-17) य एवं स्थादसर्वज्ञः सर्वशं न स बुध्यते। इति ब्रुवाणास्सार्वश्यं लभन्तां तनिषेधतः ॥ १६ ॥
(2 श्लो.-व्या, पुटं 22-23) दुस्साधं क्वचिदप्येवमवाच्यत्वादि कस्यचित् । किं पुनस्संर्ववचसां प्रतिष्ठा यत्र तत्र तु ॥ १७ ॥
(3 श्लो-व्या, पुटं 29) नित्या चेश्वरवुद्धिस्ते नानुभूतिर्न च स्मृतिः। न प्रमा न भ्रमश्च स्यात्तत्तत्कारणवर्जनात् ॥ १८॥ अनुभूत्यादिहेतूनामभावेऽपि तथा यदि । स्मृतिहेतोरभावेऽपि स्मृतिरेषा न किं भवेत् ॥ १९ ॥
(8 श्लो.-व्या, पुटं 81) ईश्वराकूतभेदं च श्रोतादृष्टं यदीच्छसि। नृगुणापूर्वक्लप्तिस्ते निष्फलैव तदा भवेत् ॥ २० ॥
(9 श्लो-व्या, पुटं 89) न च स्वेनान्यदेहादेरधिष्ठानादिसंभवः। सौभरिन्यायतस्तत्तत्प्रतिसन्धिप्रसङ्गतः॥ २१ ॥ न च स्वान्यानुमानेऽपि विजातीयत्वकल्पना । निरुपाधिकता तत्र भवेदनुमितेस्ततः ॥ २२ ॥ परदहस्थलिङ्गानामन्यथासिद्धिकल्पने । स्वदेहेऽपि तथैवेति नैरात्म्यमवशिष्यते ॥ २३ ॥ आगमादात्मनां सिद्धावीश्वरस्य तु किं पुनः। परात्मनिश्चयाभावे त्वागमोऽपि न सेत्स्यति ॥ २४॥
(22 श्लो-व्या, पुटं 106-7)