________________
सरः ३]
विश्वमिथ्यात्ववादिनिणये बावकविविधविकल्पोदाहरणम्
269
तत्त्वमुक्ताकलापः त्वनिष्ठा सिद्ध्यसिद्धयोः परमतनियतिस्तिद्धिमेवाधिरूढा
सर्वार्थसिद्धिः अथास्मिन् पश्यतोहराणां पक्षे विकल्पदौःस्थ्यं विविधमुदाहरति त्वनिष्ठेति । नितिष्ठत्यस्मिन् परीक्षति निर्णयोऽत्र निष्ठा ; तद्विषय एव वा राद्धान्तः। याऽसौ त्वन्निष्ठा सा असिद्धा भ्रान्तिसिद्धा वा; तर्हि तद्विपरीता परेषां निष्ठेव प्रमितिसिद्धिमधिरोहेत् । अथ प्रमितिसिद्धा, प्रमितिर 'सौ व्यावहारिकी वा पारमार्थिकी वा ? न प्रथमः ; दत्तोत्तरत्वात् । तादृश्या तया परमतान्यपि किं न सिध्येयुः ? अस्मदुक्तबाधकैरिति चेत्, तदुक्तबाधकैस्त्वन्मतमपि न सिध्येत् । ते
आनन्ददायिनी वासुदेवममनुत, तद्वत् सर्वात्माभेदनिष्ठाः स्वकीयेन सिद्धान्तेन हेतुना अपटवः । यद्वा खकीयः सिद्धान्तोऽपटुर्येषां त इति स्वापटवः वैदिकबहिष्कारभीरवः, तैरित्यर्थः । 'असत्यमप्रतिष्ठम्' इत्यादिगीतावचनादसुरता चैषामवगन्तव्या ॥
प्रपञ्चमिथ्यात्ववादिनां सौगतसाम्यापादनम् .
प्रसङ्गादाह -अथेति। भ्रान्तिसिद्धा भ्रान्तिरूपेण सिद्धा, भ्रान्त्या सिद्धा वा । प्रमितिसिद्धत्यत्राप्येवमर्थः । ननु प्रमितेावहारिकत्वेऽपि विषयस्य सत्यत्वमस्त्वित्यत्राह-तादृश्यति । अविशे___1 सौ चेत् व्याव-पा. - यद्वा मूले 'स्वापटुभिः' इत्यत्र स्वा पटुभिरिति च्छेद. । पटुभिः स्वकीयासुरताप्रच्छादनकुशलैः स्वा स्वकीया असुरता प्रच्छादितेत्यर्थः.