SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सर. ३] विश्वमिथ्यात्ववादिमतेवेदतत्प्रामाण्यवोबुद्धयादेमिथ्यात्वात्तेषा सौगततान्योक्तिः267 तत्त्वमुक्ताकलापः वेदा बुद्धागमाश्च स्वयमपि हि मृषा मानता चैवमेषां सर्वार्थसिद्धिः ये चैते प्रमाणप्रमेयादिभेदान् भ्रान्तिसिद्धान् साधयन्ति, तेषां योगाचारादिसमयमनास्थाय त्रय्यन्तवादाश्रयणं बालप्रलोभनार्थमित्यभिप्रायेणाह-वेदा इति । स्वयं-स्वरूपतः । अपिना व्यापारानुग्राहकयोस्संग्रहः । मानता-प्रामाण्यम् । एवं-मृषा। एषाम्-उभयेषाम् । स्थिरामावादेव सौगतानां बोद्धा मिथ्याभूतः ; स्थिरसद्भावेऽप्यद्वैतिनामात्मनोऽनुमतिमात्ररूपत्वेनाबोद्धत्वात् तदाश्रयतया भातस्याहमर्थस्याविद्याविवर्तत्वाच्च बोद्धमिथ्यात्वं सिद्धम् । बुद्धिरपि सर्वा माध्यमिकस्य मिथ्या ; मायावादिनस्तु शास्त्रसाध्या ; साध्यत्वादेव सत्यव्यतिरिक्ता । अपि च अनेनोक्तं बुद्धिस्यैर्य निर्विशेषत्वविरोधात् काल्पनिकम् ; योगाचारोक्तं आनन्ददायिनी प्रसङ्गादाह-ये चेति । एषां-वेदबुद्धागमानाम् । ननु स्थिरत्वास्थिरत्ववैषम्यात् कथं साम्यमित्यत्राह-स्थिरसद्भावेऽपीति । तदाश्रयतया-अनुभूत्याश्रयतया । योगाचारादिभिः साधारण्यमुक्ता सर्वमिथ्यावादिमाध्यमिकसाम्यमप्याह-बुद्धिरपीति । ननु मायिभिः शास्त्रजन्यज्ञानस्य मिथ्यात्वेऽभ्युपगम्यमानेऽपि तद्विषयभूतज्ञानस्य स्थैर्यस्याङ्गीकारात् कथं साम्यमित्यत्राह-अपि चेति । ननु स्थिरत्वस्य कल्पितत्वेऽपि मायिभिस्स्वरूप मात्रमङ्गीकृतमिति कथं साम्यमिति चेन्न । स्वरूपे सत्यत्तस्याप्यभावादिति भावः । 1 उभयेषां-क. मात्रमिति-ग. सत्यत्वव्याप्य-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy