________________
254
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः शास्त्रस्यापि ह्यविद्याप्रभृतिभिरुदयस्संमतस्त्वन्मतस्थै
सर्वार्थसिद्धिः मिथस्संश्रयो वा। प्रत्यक्षं सर्वं भेदवासनामूलमित्यपि निर्विकल्पके दुर्वचम् ; तस्य त्वयाऽपि संस्कारजन्यत्वानभ्युपगमात् । अस्ति च शब्दानुगमवादिनामप्यवासनाधीनं प्रथमाक्षसन्निपातजं प्रत्यक्षम् ; तत्कल्पितयोश्शब्दविवर्तपरिणत्यो संस्कारनिरपेक्षप्रकाशत्वात् । अस्तु सर्वजननी मायव निर्विकल्पके दोष इति चेन्न ; वाक्यतज्जन्यज्ञानयोरपि तदपत्यभेदत्वादिति। तदिदमाह-शास्त्रस्यापीति । प्रभृतिशब्देन
आनन्ददायिनी जन्यत्वविशेषणेऽपि व्यभिचारमाह-प्रत्यक्षमिति । तस्य वासना जन्यत्वे निर्विकल्पकत्वं न स्यात् , स्मृतिवदिति भावः । ननु -
___ " न सोऽस्ति प्रत्ययो लोके यश्शब्दानुगमाहते ॥" इति ये वदन्ति, तन्मतानुसारेणेदमनुमानं स्यादित्यत्राह-अस्ति चेति । शाब्दास्त्वेवमाहुः
"वस्तुस्फोटः स एकोऽस्मिन् प्रपञ्चः प्रतिभासते ।" इति । तत्र सर्वप्रपञ्चाऽध्यस्तो भासत इत्येकः पक्षः। तस्यैव परिणाम इत्यपरः । उभयत्रापि स्फोटे ध्वनिगोचरसाक्षात्कारस्य वासनानिरपेक्षस्वात् व्यभिचार इत्यर्थः । ‘न सोऽस्ति'इत्यादिनियमेऽपि श्रौत्रे प्रत्यक्ष वासना नपेक्षत्वादिति भावः । तत्कल्पितयोरिति । वासनाया विवर्ते परिणामे च सहकारितया प्रकाशहेतुत्वादिति भावः । तदपत्यभेदत्वादिति । अविद्याजन्यत्वाद्वेदान्तानां तत्त्वावेदकत्वं भज्यतेति भावः ।
1 संस्कारापेक्ष-पा. कल्पक न-क. नानिरपेक्ष-ग.