________________
सरः ३] शास्त्रस्थाविद्यकत्वे तस्यापि दोषमूलनापत्तिः, अनाविद्यकत्वेऽद्वैतहानिश्च 255
तत्त्वमुक्ताकलापः स्तस्यानाविद्यभावे न हि निखिलभिदापह्नवशक्यशङ्कः ॥५५॥
सर्वार्थसिद्धिः भदवासना तन्मूलभेदभ्रमं च गृह्णाति ।
अतः प्रत्यक्षमात्रस्य दोषमूलत्वकल्पना । निर्दोषज्ञप्तिसद्भावं न सहतेति निश्चिनु ॥
अथ शास्त्रस्य ब्रह्मवदविद्यावच्चानादित्वादविद्यामूलत्वं नास्तीति मुग्धा' द्वैतिमतमनूद्य दूषयति-तस्येति। तत्र शास्त्रस्यादोषकल्पितानादिभावत्वात् ब्रह्मवदविद्यातद्विवर्तान्यतया च सत्यत्वप्रसक्तौ स्वाभिमतमद्वैतं भज्येतेति भावः ॥ ५५ ॥
इति शास्त्रप्रत्यक्षयोर्दोषसाम्यापादनम् .
आनन्ददायिनी उक्तम) कारिकया संगृह्णाति-अतः प्रत्यक्षेति। अनाविद्यभाव इति मूलम्---आविद्यं अविद्याघीनं तन्न भवतीत्यर्थः ॥ ५५ ॥
शास्त्रप्रत्यक्षयोर्दोषसाम्यापादनम् .
1 दैतमत-पा.
अत्र शाखस्य दोषाकल्पि-पा.