SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ सर ३] पूर्वानूदितमतेऽनैकान्तिकत्वातिप्रसङ्गान्योन्याश्रयचक्रकादिदोषापादनम् 253 सर्वार्थसिद्धिः भेदवासना दोषः, अयथार्थस्मृतिहेतुत्वात् । अन्यथा ह्यद्वैतवासनाया अपि दोषत्वप्रसक्तिः । प्रत्यक्षे तु वासना भ्रान्ति प्रसूतैवति चेत् ; न. वासनाया दोषत्वसिद्धौ तद्धेतोरनुभवस्य भ्रान्तित्वसिद्धिः; ततश्च तसिद्धिरिति मिथस्संश्रयात् । एतेन भेदधीजनकत्वाद्वासनाया दोषत्वमित्यपि प्रत्युक्तम् ; पृथिव्यादिभेदधिया भ्रान्तित्वसिद्धो वजनकवासनाया दोषत्वम् , ततश्च तदिति । तत्त्वावेदकवाक्यबाधितत्वात् भेदधिया भ्रान्तित्वे सिद्धे ततस्तद्धेतोर्दोषत्वक्लप्तौ नान्यायाश्रय इति चेन्न ; प्रत्यक्षम्य वासनाख्यदोषमूलत्वे सिद्धे वाक्यस्य तद्विरुद्धतत्त्वावेदकत्वम् ; ततश्च भेदधियां भ्रान्तित्वम् ; तत एव तद्धेतुवासनाया दोषत्वम् ; ततः प्रत्यक्षस्य दोषमूलत्वमिति चक्रकापत्तेः ; पर्वसंकोचन ___ आनन्ददायिनी जन्यत्वात भ्रमजनकत्वाचेत्यर्थः । अयथार्थस्मृतिहेतुत्वात् प्रत्यक्षे तु वासना भ्रान्तिप्रसूतैवेति चोक्तः । तद्धेतोरनुभवस्य भ्रान्तित्वसिद्धिरित्युपलक्षणम् , तज्जन्यस्मृतेरपि भ्रान्तित्वसिद्धिरिति द्रष्टव्यम् । भेदधीजनकवासनाया दोषत्वमित्यत्र अतत्त्वमेव दोषत्वप्रयोजकं, उत भेद. धियोऽपि भ्रान्तित्वात्तजनकत्वमिति विकले प्रथमे भेदधीजनकवासनाया एव तत्त्वेन जनकत्वं किमिति नोच्यत इत्यत्र नियामकाभावेन निरस्ते द्वितीयं दूषयति-पृथिव्यादिभेदधियामिति । जङ्कने-तत्त्वेति । पर्वसंकोचनेति । भेदधियां भ्रान्तित्व सिद्धे वाक्यस्य तत्त्वावेदकत्वं, तत्त्वावेदकत्वे भ्रान्तित्वमित्यादिक्रमेणत्यर्थः । 1 प्रसूतेति-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy