SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 252 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक सर्वार्थसिद्धिः स्वप्रकाशप्रत्यक्षेऽपि वृत्तेरनै कान्ति'कम् । अथानित्यप्रत्यक्षत्वादिति विशेष्येत, तथाऽपि स्वाभीष्टध्यानजन्ये शब्दजन्ये वा परब्रह्मप्रत्यक्ष तद्वत्तिसिद्धा । तत्रापि दोषमूलत्वाभ्युपगमे कथं तत्त्वसाक्षात्कारसिद्धिः ? दोषमूलादपि तसिद्धावतिप्रसङ्गः । दुष्टप्रत्यक्षमूलतया चानुमानस्यापि बाध्यत्वं दुर्वच स्यात् । यदि च प्रत्यक्षत्वमात्रेण पृथिव्यादिस्वरूपप्रत्यक्षस्य दोषमूलत्वम् , बोधकत्वादेव ब्रह्माद्वैतवाक्यानामपि किं नैतत्स्यात् ? वाक्यदोषत्वेन संप्रतिपन्नं किञ्चित्तत्र न दृश्यत इति चेत् ; समानमेतद्विमतेऽपि प्रत्यक्षे; अतिरिक्तदोषानुमा नस्य तु वाक्येऽपि कः प्रत्यूहः ? भेदवासनाख्यो दोष. प्रत्यक्षे प्रसिद्ध इति चेन्न । शब्देऽपि 'तम्याम्तद्वत् प्रसिद्धत्वात् । न यत्र प्रकृतिप्रत्ययपदवाक्यपदार्थवाक्यार्थादिविकल्पान् वासनानपेक्षानभिमन्यध्वे । न च द्विवन्द्रादिवासनानां वासनात्वादेव दोषत्वम् ; किंतु भ्रान्तिमूलत्वात् । अतोऽभिन्नष्वेव ___ आनन्ददायिनी ट्यानजन्यब्रह्मगोचरमानसप्रत्यक्षस्य स्वीकारात् कैश्चिच्छाब्दापरोक्षस्य स्वीकारात् । दोषमूलादपीति । दोषरूपकारणादित्यर्थः । दोषजन्यस्यापि तत्त्वगोचरत्वे भेदप्रत्यक्षस्यापि तथेति बाघो न स्यादिति भावः । दोषेति। दुष्ट प्रत्यक्षत्वमेव दोषः । तन्मूलतया ह्यनुमानस्य बाध्यत्वं ब्रूषे तन्न स्यादित्यर्थः । आभाससाम्यमाह-यदि चेति। ननु सप्रतिपन्नातिरिक्तमनुमास्यत इत्यत्राह-प्रत्यक्ष इति । न ह्योति। सर्वेषामपि भेदगोचरत्वादिति भावः । ननु वासनात्वेनादोषत्वाद्वाक्यादिमूलानां वासनात्वेऽप्यदोषत्वमिति शङ्कते-भ्रममूलत्वादिति । भ्रम कपा. भीष्टे ध्यान-पा. स्य वाक्ये-पा 4 तस्य तद्वदेव प्रसि-पा. 5 प्रत्यक्षमेव-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy