SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ सरः ३] प्रत्यक्षस्य तन्मूलकानुमानस्य च दोषमूलत्वसाधकपरमतानुवादः 251 तत्त्वमुक्ताकलापः प्रत्यक्षं दोषमुलं श्रुतिरिह न तथाऽपौरुषेयत्वहाने स्तस्मात्सा बाधिकाऽस्येत्यसदखिलधियामन्ततो दोषसाम्यात् । सर्वार्थसिद्धिः पुनः प्रत्यक्षादेर्निर्दोषत्वमसिद्धमिति शङ्कते । प्रत्यक्षमिति - अयं भावः-विगीतं प्रत्यक्षं दोषमूलं प्रत्यक्षत्वात् द्विचन्द्रादिप्रत्यक्षवत् । अंत एव तन्मूलस्यानुमानस्यापि दोषमूलत्वं सिद्धम् । श्रुतिम्तु न तथा ; सर्वेषु कल्पेषु एकरूपतयैव श्रूयमाणतया पौरुषेयत्वासंभवेन वक्तृदोषप्रसङ्गाभावात् , इह च तद्वद्ये ब्रह्मणि भेदनिषेधे वाऽनन्यगोचरत्वेन तात्पर्यस्थापनात् । अतस्सा श्रुतिरस्य प्रत्यक्षस्य बाधिकेति । तदेतत् प्रत्याचष्टे-इत्यसदिति । स्वव्याघातादिदोषादिति भावः । अभिप्रेतं विवृणोति-अखिलधियामिति । अय समाधिः-प्रत्यक्षत्वादिति आनन्ददायिनी आक्षेपसङ्गत्याऽऽह-पुनरिति । ननु प्रत्यक्षं दोषमूलामत्ययुक्तं हेत्वभावात् , अविद्यामूलत्वं त्वसिद्धं, सिद्धौ वा श्रुतिसाधारण्यमित्यत्राह---अयं भाव इति । ननु निर्दोषत्वेन बाधकत्वे यपादित्यवाक्यादपि प्रत्यक्षबाधः स्यादित्यत्राह-इह चेति । तात्पर्यवती श्रुतिबलवती। यूपादित्यवाक्यस्य त्वर्थवादत्वान्न तात्पर्यवत्त्वमिति भावः। नन्वखिलधियां कथं दोषसाम्यं श्रुतीनां तदभावादित्यत्राह-अयं समाधिरिति । ध्यानजन्ये शब्दजन्य इति । मतभेदेन कैश्चि 1 दितिहेतुः स्वप्र-पा. वाक्यादेरपि-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy