SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ 248 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः ज्वालैक्यप्रत्यभिज्ञाद्युभयमपि च तद्वाध्यते ह्यागमाद्यैः । तस्मादक्षादिसिद्धं श्रुतिभिरपि जगदाध्यना. मित्ययुक्तं सन्देहार्हेषु शक्तं यदिह न खलु तदोष दूरेध्वपि स्यात् ॥ ५४॥ सर्वार्थसिद्धिः सामग्रीसामर्थ्यादनिच्छतोऽपि देहविभ्रमे बाधितानुवृत्तिरित्यभिप्रायेण दृढतरशब्दः । अस्य ज्वालैक्यप्रत्यभिज्ञायां विपरिणतानुषक्तिः ; अपिः प्रत्यक्षस्य बाध्यत्वसंभावनार्थः ; चकारश्चन्द्रसूर्यपरिमाणाल्पत्वादिभ्रमाकारसंग्रहार्थः । आगमाद्यैरित्यनेनानुमा नवत्परेष्टमर्थापत्त्यादिकमपि गृह्यते । अत्र देहात्मबोधस्याजुमानागमाभ्यां ज्वालैक्यग्रहस्य चानुमानेन बाधः । एवं निदर्शितमर्थं प्रकृते निवेशयति-तस्मादिति । विषमो दृष्टान्त इत्याभप्रायेणाह-इत्ययुक्तमिति । सन्देहार्हेष्विति । अयं भावः-क्षेत्रभूषणादिनयात् मम देह इति आनन्ददायिनी निवर्त्यत्वादिति भावः । अस्येति । दृढतरशब्दस्य दृढतरेति स्त्रीलिङ्गतया विपरिणतस्यानुषक्तिरित्यर्थः । अर्थापत्तिः-दृग्दृश्यसम्बन्धा. नुपपत्तिः । आदिशब्देन मिथ्यात्वसाधकतर्कसङ्ग्रहः । ननु सन्देहाहत्वमेव न संभवति, निश्चयस्य सत्त्वात् । यदि निश्चयेऽपि तद्योग्यता स्यात्तर्हि प्रत्यक्षस्यापि सत्यग्राहिणस्सत्त्वेऽपि तथा स्यादिति बाधस्स्यादित्यत्राह-अयं भाव इति । ननु मम देह इति "बुद्धिरयुक्तव नादिव-पा. भाव:-इह क्षेत्र-पा. सदेहाभिमतत्व-ग. "बुद्धिरयुक्तेतिवत्स्थूलो-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy