________________
सरः ३]
परोक्षभूतानुमानागमादिभिबाध्याबाध्यप्रत्यक्षविवेचनम्
249
सर्वार्थसिद्धिः व्यतिरेकप्रत्ययस्तावदरपह्नवः । ममात्मेत्येत्तत्तु घटन्यात्मेतिवत् स्वरूपपरमिति सर्वसंमतम् । वीतरागजन्मादर्शनादिभिश्च देहात्मभेद
आनन्ददायिनी स्थूलोऽहमित्यभेदधियः सत्त्वात् । न चाप्रामाण्यशङ्का, 'तथासत्यन्यतोऽप्रामाण्यसन्देहेऽनया शङ्काकलङ्कितत्वकथनासङ्गते. । किं चाप्रामाण्यशङ्काकलङ्कितत्वेऽपि न विपरीतप्रत्यक्षसंभवः, विपरीतप्रत्यक्षे विद्यमाने तदयोगात् । अन्यथाशीतप्रत्यक्षकाल एव गैत्यप्रत्यक्षमपि स्यात् । किं च तथाभूतप्रत्यक्षेणैव बाधितत्वात् किं शास्त्रबाधनेनेति चेत् । अत्राहु:-प्रत्यक्षस्य न तावत् साक्षाद्विरोधः, स्थौल्यावच्छ नाभेदप्रतीतिः, भेदबुद्धिस्तु देहत्वावच्छेदेन । तथा चावच्छेदकभेदान्न विरोधः। यथेदत्वावच्छेदेन रजताभेद ग्रहऽपि शुक्ती रजत नति, यथा वा रजतत्वेन पुरोवर्त्यभेदग्रहेऽप्यापणस्थरजतत्वेन तद्भेदग्रहः । ननु तथाऽपि स्थौल्यनिषेधः कथं स्यात्प्रत्यक्षप्राबल्यम्य भवद्भिरुक्तरिति
चत् । अत एव देहेन संसृष्टत्वादात्मनोऽयःपिण्ड इव वह्निगतलौहित्य देहगतस्थौल्यमात्मनि भासते स्वगतं वेति सन्देह उपन्यस्त इति शास्त्रेण तस्य बाध इति । केचित्तु-अहंत्वाश्रय स्थौल्याध्यासात्तदवच्छिन्न भेदो मा ग्राहि देहत्वावच्छिन्नभेदो गृह्यत एव, प्रतियोगितावच्छेदकरूप. भेदाभावग्रहादिति वदन्ति । ममात्मेति । वस्तुतोऽत्र ममशब्दार्थात् अत्म' शब्दार्थस्य भेदोऽस्त्येव । ममशब्दः शरीरविशिष्टपरः तदेक देशत्वादात्मनः, यथा वनस्य वृक्ष इति ध्येयम् । वीतरागेति । जातस्सर्वोऽपि स्तन्यप्रवृत्त्या सराग एव ; रागश्च जन्मान्तरसंस्कारोबोधात् ।
1 तथास्त्यन्यतो-ग. 2 ग्रहे शुक्ती-क. चेत्तत एव-ग. स्थौल्याभासा-ग. 5भेदेन मात्राभिदेहत्वावच्छिन्नभेदेन गृह्यत एव?-ग, 6 मेदाभावादिति-ग. ' शब्दार्थस्य भेदस्यैव ?-ग. देशित्वा-ग.