SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 246 सव्याख्यसर्वार्थमिद्धिसहिततत्त्वमुक्ताकलापे नायक Aama तत्त्वमुक्ताकलापः अक्षानायः स्वपूर्वापरविहतिभयानेतिनेत्यादिवाक्यं सर्वार्थसिद्धिः परिहृत्यै विश्वस्य ब्रह्मात्मकत्वादिसाधर्म्यविधौ वा जडपण्डितशत्रुमित्रादिवैधHदृष्टिनिषेधे वा तात्पर्य स्थापनीयम् । इयं च गतिः " एकधैवानुद्रष्टव्यः " " विद्याविनयसंपन्ने" " सुहृन्मित्रायुदासीन" इत्यादिभिरनुगृह्येत । अत ईदृशेषु सर्वेषु वाक्येष्वेवं सर्वाविरुद्धः कश्चिदर्थस्समर्थनीय इत्यभिप्रायेण “अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत्परमस्ति "इति वाक्यं तावदविरुद्धार्थविषयं साधयति ----अक्षेति । प्रत्यक्षग्रहणमनुमानस्याप्युपलक्षणम् । आम्नायशब्द इह श्रुत्यन्तरपरः। अत्र " द्वे वाव ब्रह्मणो रूपे मूत चामूर्तमेव च" इत्यादि पूर्ववाक्यम् | " अथ नामधेयं सत्यस्य सत्यम्" इत्यादि पश्चिमम् । तदिह प्रत्यक्षानुमानश्रुत्यन्तरपूर्वापरविरोधभीत्या मध्यम " नेति नेति" इत्यादिवाक्यं ब्रह्मगुणविभतिविग्रहाद्यबाधेन ब्रह्मण्येवानुक्तातिशयान्तरपरं नेतव्यम् । ततश्च लोकदृष्टप्रकारवैलक्षण्यार्थ आनन्ददायिनी स्वातदविरुद्धपरत्वस्य वक्तव्यत्वादिति भावः । निषेधस्वारस्यादाहजडेति । अनन्तरोक्तार्थे उपष्टम्भकमाह-इयं चेति । एवकारेण वैषम्यबुद्धिनिषेधः । 'विद्याविनय' इति पण्डितास्समदर्शिनः' इति वैषम्यदर्शननिषेधे तात्पर्यादिति भावः। श्रुत्यन्तरं नित्यो नित्यानां"पृथगात्मानं' इत्याद्यम् । पूर्वापरस्थवाक्येनापि 'नेति नेति' इति वाक्यस्य न मिथ्यापरत्वमित्याह-पूर्वापरेति । ततश्चेति । नेति नेतीति लौकिकप्रमाणगम्या 1 व्यं-पा. ७ वाक्ये-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy