SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ सरः ३] 'ब्रह्मव' 'नेह नाना' इत्यादिश्रुतीनामब्रह्मात्मकजगन्निषेधादिपरत्वब्यवस्थापनम् 245 सर्वार्थसिद्धिः अत्यतिष्ठदशाङ्गुलम् " " पुरुष एवेद सर्वम् " " सर्व समाप्नोषि ततोऽसि सर्वः " "सर्वगत्वादनन्तस्य स एवाहमवस्थितः" इत्यादिषु । अत एव " ब्रह्मवेद सर्वम् , आत्मैवेदं सर्वम् , यत्र त्वस्य सर्वमात्मैवाभूत्" इत्याद्याः सावधारणनिर्दे'शाश्चाब्रह्मात्मकत्वनिषेधाभिप्रायाः। तथा च " नेह नानाऽस्ति किञ्चन " इत्यादिकमपि गतार्थम् । इदं च वाक्य यदि ब्रह्मणि नानात्वं प्रतिषेधेत् ; तदा ब्रह्मैकत्वसिद्धौ का कथा तद्गणविभूतिनिषेधम्य ? अथ भावप्राधान्यानाञ्जस्य किञ्चनेति पदवैयर्थं च मत्वा नानाभूतं किञ्चन वस्तु ब्रह्माण नास्तीति योज्यत, तथाऽपि न जगन्निषेधः ; ब्रह्मण्यविद्यमानानामपक्षयविनाशरूप वर्णा(दी)नामिव स्वाधारेषु निराधारतया वा वृत्त्युपपत्तेः । बहुव्यापिनि सर्वाधारनया चाघिगत ब्रह्माणि " नास्ति किञ्चन " इति निषेधात् तन्मिथ्यात्वे तात्पर्य गम्यत इाते चेत्, तथा सति नेद किञ्चनास्तीत्येतावद्वक्तव्यम् । अधिकरणोक्तित्वजागलस्तनायेत । अथ प्रपञ्चे नानात्वं नास्ति नानाभूतं नास्तीति वा प्रतिगायेत, तदाऽपि न प्रपञ्चस्वरूपबाधः, तन्नानात्वनिषेधे वाक्यप्रवृत्तः । तत्र दृष्टश्रुतविरोध आनन्ददायिनी तथा चेति । नानाशब्दस्यासाहित्यवाचकत्वात् जगति ब्रह्मासहभूत वस्तु नास्ति, सर्वस्य तदात्मकत्वादित्यर्थः । किं 'चानन वचनेन किं नानात्व निषिध्यते, उत नानाभूतं वस्त्विति विकल्पमभिप्रेत्याद्य आह--इदं चेति । द्वितीयं शङ्कते-अथेति । अधिकरणेति । इहेत्युक्तिरित्यर्थः । तत्रेति । प्रत्यक्षादिभिर्भेदस्य प्रतिपन्न 1शा अप्यब-पा युज्येत-पा. वर्णाना-पा. + किञ्चन नानाती-पा. 5 नास्तीति वा नाना-पा. 6 तथाऽपि-पा 'चानेन कि-क. इहेत्यर्थ - क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy