SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ सरः ३] प्रत्यक्षानुमानविरुद्धस्य जगन्मिथ्यात्वस्य आम्नायैरप्यसाध्यत्वकथनम् 243 तत्त्वमुक्ताकलापः यूपादित्यैक्यवाक्यप्रभृतिरितरथा नोपचारं भजत । __ सर्वार्थसिद्धिः ननु पदपदार्थादिस्वरूपमात्र शास्त्रम्य प्रत्यक्षादुपजीव्यम् , अनुपजीव्यं तु तत्सत्यत्वं प्रमाणाभासभासितं शास्त्रण बाध्येत ; मैवम् ; न हि जगत्सत्यत्वग्राहिणः प्रमाणाभासत्वमितः पूर्वं सिद्धम् । ततश्च तदाभासत्वसिद्धया शास्त्रेण तद्बाधः, तेन च सेति मिथसंश्रयः स्यात् । अस्त्वाम्नायत्वमेव प्राबल्यकारणमित्यत्रातिप्रसङ्गमाह-यूपादित्येति । ननु “आदित्यो यूपः" इत्यादेराम्नायस्य कर्मविधिशेषतयाऽन्यपरत्वात् दुर्बलतया प्रत्यक्षानुविधानेन वृत्त्यन्तरस्वीकारः, इह तु तत्त्वावेदकवाक्यस्यातत्परत्वासंभवात् प्रत्यक्षादिबाघकत्वं युज्यते । हन्त, किं आनन्ददायिनी सर्वमदुष्टमेवेति वादजल्पवितण्डात्मककथात्रयस्यापि दूष्यदूषणव्यवस्थाधीनस्य उच्छेदस्स्यादित्यर्थः । ननु सत्त्वग्रहप्रत्यक्षस्य न श्रुत्युपजीव्यत्वमिति शङ्कते-नन्विति । यद्यप्यसत्त्वेन ज्ञानस्य बोधकत्वमयुक्तम् , लिङ्गादौ तदभावात् । तथाऽप्यभ्युपेत्य समाधत्ते-मैवमिति । तुल्यत्वादिति भावः । ननु तात्पर्यवती श्रुतिः प्रत्यक्षाद्यपेक्षया प्रबलेति न यूपादित्यवाक्यसाम्यमिति शङ्कते-नन्विति । अन्यशेषत्वेऽपि तदनुगुणतया स्वार्थेऽपि तात्पर्यमम्त्येव । 'ब्रीहीन्प्रोक्षति' इत्यादेशिष्टिविधिशेषत्वेऽपि स्वार्थपरत्वदर्शनात् । देवताविग्रहादिवाक्यैरर्थवादैर्विग्रहादिस्वीकारात् 'यन्न दुःखेन 'इत्यादिभिश्च फलस्वीकाराच्चान्यशेषत्वं न स्वार्थत्यागकारणमित्याह - हन्तेति । 1 ज्ञातस्य-क. 16*
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy