________________
242
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः आनायस्यापि शक्तिर्न खलु गमयितुं स्वोपजीव्यप्रतीपं
सर्वार्थसिद्धिः ___ मा भूदनुमानम् ; नित्यनिर्दोषनिगमवाक्यगणैरेव निर्विशेषम्वप्रकाशसच्चिदानन्दब्रह्मव्यतिरिक्तसर्वमिथ्यात्वसिद्धिः स्यादित्यत्राह-आम्नाय. स्येति । अय भावः-प्रत्यक्षमुपजीव्यानुमानस्य, ते उभे उपजीव्य शास्त्रम्य च प्रवृत्तिः, 'तच्चेत्ते बाघेत, अनुमानेऽपि कालात्ययापदिष्टकथैव न स्यात् ; तथा च बाधाभावे कथं दूष्यदूषणव्यवस्थेति कथात्रयोच्छेदः।
आनन्ददायिनी इति । अनित्यत्वं हि नित्यत्वाभावः . तस्यासत्यत्वं नित्यत्व, तथा च मिथ्यात्वसाधनव्यापारेण विनायकसृष्टौ व्याप्तस्य मर्कटसृष्टिपर्यवसानवत् सर्वनित्यत्वपर्यवसानात् साधु समर्थितमद्वैतमिति भावः ॥ ५२ ॥
अनित्यमिथ्यात्वक्तृप्तिपरिहारः.
आक्षेपसङ्गत्याऽऽह-मा भूदिति । ननु प्रसक्तिसापेक्षस्यापि निषेधस्य प्रसक्तिबाधकत्वमदृष्टमिति कथं न गमकत्वमागमस्येत्यत्राहअयं भाव इति । ते प्रत्यक्षानुमाने । वह्निरनुष्णः पदार्थत्वादित्यनुमानेन प्रत्यक्षस्य बाधप्रसङ्गेन बाधहेत्वाभासो न स्यादित्याह - अनुमानेऽपीति । तथा च बाधाभाव इति । अनुमाने बाधस्य दोषत्वाभावे तुल्यन्यायेन तदधीनव्यभिचारादीनामपि दोषत्वाभावात्
1 तच्चैते-पा, 2 दित्यत्राह-क.