SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 240 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक सर्वार्थसिद्धिः स्त्वया स्वयंप्रकाशतानभ्युपगमात् ; अभ्युपगमे चानित्यसत्यत्वप्रसक्तेः । न द्वितीयः ; अन्यबुद्धया तत्स्वरूपसिद्धावनित्यबुद्धनित्यभानप्रसङ्गात् । ईश्वरबुद्धिवत् स्वकालवर्तित्वप्रतिभासे स्वत एव सत्याया अनित्यबुद्धेः कालोपाधित्वप्रसङ्गात् । तत एव तदपेक्षः पूर्वोत्तरकालासत्त्वलिङ्गेन स्वोपजीव्यमध्यकालसत्त्वप्रतिषेधः प्रासादनिगरणप्रयासप्राय इति । अत्र सतोऽसत्त्वमसतस्सत्त्वं च दुस्साघमिति दुरभिमानमुन्मूलयति आनन्ददायिनी ताया अभ्युपगम इति षष्ठीसमासो न सम्भवति ' उभयप्राप्तौ ' इति विहितषष्ठ्याः कर्मणि च' इति निषधादिति चेत् ; न । शेषषष्ठयास्समाससंभवात् । यदा कर्मविवक्षा तदोभयप्राप्ताविति नियमात्तदविवक्षायां शेषत्वविवक्षासम्भवात् । ननु शेषत्वविक्षा न संभवति 'अधीगर्थदयेशां कर्मणि' इत्यादिभिर्नियमादिति चेन्न । महाभाष्य 'एव माषाणामश्नीयादित्यादिप्रयोगनिर्वाहात् । न च ' अधीगर्थ' इत्यादिवैयर्थ्यम्, समासनिषेधार्थत्वात् । यद्वा करणत्वविवक्षायां तृतीयेति नानुपपत्तिः । अभ्युपगमे चेति । स्वयंप्रकाशत्वस्य सत्यताव्याप्तिस्त्वयाऽप्यभ्युपगतेति भाव. । नित्यभानप्रसङ्गादिति । बुद्धेः सार्वकालिकत्वात्तदवधिकत्व वक्तुं न शक्यमित्यर्थः । ननु तद्बुद्धनित्यत्वेऽपि यत्कालवर्तित्वं प्रति भासाविषयस्तदवधिकस्यादित्याशङ्कय परिहरति -स्वकालेति । तत्काले सत्त्वस्य बाधकाभावेन साधकसत्त्वादिति भावः । उपसंहरति-तत एवेति । बाधित इति भावः । नन्वपरोक्षसामग्रीपरत्वे व्यवहितान्वयः स्फुटतरः वेदनस्योपादानं ___गमे वानित्यसत्त्वप्र- पा. एवान्यत्रापि माषाणा-ग 3 तद्बुद्धिर्नि-ग. + भासविषयस्तदवधिक-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy