SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ मर. ३] अनित्यत्वेन जगतो मिथ्यात्वग्राहकानुनानस्य दुर्निवहत्वोपपादनम् 239 सर्वार्थसिद्धिः कालासत्त्वात्मनो मिथ्यात्वस्य प्रचि ख्यापयिषितत्वात् । उतरत्र स्वकालसत्त्वानुमतिलब्धजीवितेन हेतुना कथं सा प्रतिक्षिप्येत ? तत्कालवर्तित्वबुद्धयपेक्षया प्रागुत्तरकालपरिक्लप्तिरिति चेत् , न ; नित्ययाऽपि धिया तत्कालवर्तित्वग्रहणोपपत्तेः । अनित्यबुद्धयपेक्षया प्रागूल समय सिद्धिरिति चेत् , बुद्धेस्तर्हि स्वकालसत्त्वमेष्टव्यम् , अन्यथा तदवधिकपूर्वोत्तरासिद्धः। बुद्धिरपि बुद्ध्यधीनसिद्धिः, न तु वस्तुतम्सतीति चेन्न ; अनित्यबुद्धिवन्नित्यबुद्धिरपि तथेति प्रसङ्ग निवारकाभावात् । किं चासौ.स्वाधीनसिद्धिर्वा स्वेतरबुद्धयधीनसिद्धिर्वा ? नाद्यः, अनित्य वुद्धे आनन्ददायिनी सिद्धिरित्यर्थः । अशत इत्येतदुत्तरत्राप्यन्वेतीत्यप्याहुः । उत्तरत्रेति । स्वरूपेणासत्त्वस्य सिद्धतयोत्तरकालाद्यसत्त्वं वक्तव्यम् । कालम्योत्तरकालाद्यसत्त्वं वक्तव्यम् । कालस्योत्तरत्त्वं च तत्सत्ताकालापेक्षयेति तदुपजीविसत्ताको हेतुरित्यर्थः । ननूपजीव्यत्व नाम्ति सत्तायाः ; किं तु तद्धरेवेति शङ्कते--- तत्कालेति । किं तद्बुद्धिनित्या विवक्षिता, यद्वाऽनित्येति विकल्पाभिप्रायेणाद्य आह-न नित्ययेति । तदवच्छिन्नत्वात् कालमात्रस्य तत्पूर्वोत्तरकालासिद्धिरित्यर्थः । द्वितीयं शङ्कतेअनित्येति । अशतो बाधं व्यभिचार चाभि प्रेत्याह-बुद्धेरिति । बुद्धिरपीति । तथाच न बाध इति भावः । तम्य नित्यबुद्धिर्दुष्टा. तेन बुद्धित्वादिहेतुना ब्रह्मरूपनित्यबुद्धेरपि स्वतः सत्त्वाभावेन साऽपि सती न स्यादित्याह --अनित्येति । बुद्धिरपि वुद्धयधीनसिद्धिरित्येतद्विकल्पयति-किं चेति । स्वयंप्रकाशतानभ्युपगमादित्यत्र प्रकाश बुद्धेस्स्वयंप्रकाशत्वान-पा. 1 पयिष्यमाणत्वात्-पा. वस्तुसती-पा + प्रेत्याह - अबुद्धेरिति-ग. 5 तयनित्यबुद्धिदृष्टान्तेन--ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy