________________
238
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः मध्ये सत्त्वं गृहीत्वा खलु तदुभयतोऽसत्त्वलिङ्गं गृहीतं
सर्वार्थसिद्धिः साध्यहेत्वोरित्येतत् लक्षणहेत्वोः' इतिवत् । अत्र हेतुसाध्ययोाहति विवृणोति-मध्य इति । अयमत्राशयः-कालविशेषा सत्त्व ह्यसिद्धं तावन्न लिङ्गं स्यात् , त्वयाऽपि तथाऽनभ्युपगमात् । तत्सिद्धिस्तु स्वकालेऽप्यसत्त्वं क्रोडीकृत्य वा बहिष्कृत्य वापूर्वत्रासिद्धिरंशतस्साध्याविशेषश्च; स्वदेश
आनन्ददायिनी मिष्टमिति भावः । ननु साध्यहेत्वोरिति मूले निर्देशोऽनुपपन्नः ; 'द्वन्द्वे घि' इति हेतुपदस्य पूर्वनिपातनियमादित्याशङ्कां मनसि निधाय 'लक्षणहत्वोः क्रियायाः' इति सौत्रनिर्देशव्यभिचारचिडून पूर्वनिपातशास्त्रस्यानित्यत्वावगमान्न दोष इत्याह-साध्यहेत्वोरित्येतदिति । ननु मध्ये सत्त्वग्रहणपूर्वकमेवासत्त्वं गृह्यताम् , कथं व्याहतिरित्यत्राहअयमत्राशय इति । ननु मिथ्याभूतमेवास्माभिलिङ्गत्वेनाभ्युपगम्यत इति कुतोऽसिद्धिर्दोषः स्यादित्यत्राह-त्वयाऽपीति | कालविशेषासत्त्वम्यासिद्धिस्सत्त्वमेव । तस्य त्वयाऽप्यभ्युपगमादित्यर्थः । स्वरूपासिद्धेर्दोषत्वाभ्युपगमेन साधकत्वानभ्युपगमादिति केचित् । स्वकालेऽप्यसत्त्वमिति । स्वकालासत्त्वे सति तदुत्तरकालासत्त्वं हेतुरित्यर्थः । अंशत इति । हेत्वेकदेशस्य स्व कालासत्त्वस्यासिद्ध्या विशिष्टस्या
लक्षणहेत्वोरितिवदिति - ' लक्षणहेत्वोः क्रियायाः' (पा. सू. ३-२-१२६) इति पाणिनीयसूत्रे पूर्वनिपातप्रकरणस्यानित्यत्वतात्पर्येण लक्षणहेत्वोरिति निर्देशवत् साध्यहेत्वोरित्यत्रापि 'द्वन्दे घि' (पा सू. २-२-३२) इत्यस्यानित्यत्वान्न हेतुशब्दस्य पूर्वनिपाननियम इत्याशयः। अतोऽत्रानुपदमेव वृत्तौ हेतुसाध्ययोरिति प्रयुक्त चेति बोध्यम् . 2 घासत्त्व तावदत्यन्तासिद्ध न लिङ्ग-पा. ३ मूले निर्देशान्नैतत् द्वन्द्वे-ग, 4 कालस-ग.