________________
सरः ३] जगतोऽनित्यत्वेनमिथ्यात्वग्राहकयोस्तर्कानुमानयोःप्रदर्शनन्त्रतर्कनिरालश्च 237
तत्त्वमुक्ताकलापः व्याहतेस्साध्यहेत्वोः ।
सर्वार्थसिद्धिः स्वकालाभावात् तदवधिककालान्तरासिद्धेः तदुपश्लिष्टप्रसञ्जनीयबोधासंभवेन तत्प्रसङ्गायोगात् । न द्वितीयः, इष्टप्रसङ्गत्वात् , प्रसञ्जकैकदेशस्य प्रसञ्जनीयत्वायोगाच्च । अथ विशिष्टाङ्गीकार विशेष्याङ्गीकारप्रसङ्गः, तच्च नास्ति बाधादित्याकूतम् ; तदपि न; अन्यतो बाधादृष्टेः । एतेन तर्केण बाधमुज्जीव्यैतत्सिद्धरशक्यसंपादनत्वात् कुतश्चिदसत्त्वस्यासिद्धौ सत्त्वस्य प्रसञ्जनीयत्वायोगाच्चेति भावः । अनुग्राह्याभासत्वे विरोध हेतूकरोति-व्याहतेरिति ।
आनन्ददायिनी स्वकालान्यकालसत्त्वं नापाद्यमपितु भूतादिकालसत्त्वमिति न दोष इति चेन्न । भूतकालाधुपाघेस्तत्काल एव सत्त्वाभावे म्वकालस्यापि भूतकालतया सिद्धसाधनम् । तत्काल एव सत्त्वे तत्रैव व्यभिचारः । एतेन सर्वकालसत्त्वमापाद्य मिति निरम्तम् । सर्वकालत्व हि सर्वोपाध्युपहितकालत्वं, तेषामुपाधीनां प्रति नियतत्वे तैरेव व्यभिचारः । प्रतिनियत्त्वाभावे स्वकालम्यापि सर्वोपाध्यवच्छिन्नत्वात् सिद्धसाधनमिति भावः । प्रसञ्जकेति । प्रसञ्जकस्य यत्किञ्चित्कालसत्त्वस्य सत्त्वघटितत्वादिति भावः । प्रसञ्जकैकदेशत्वदोषपरिहारं शङ्कते-अथेति । कालविशेषसत्त्वाङ्गीकारे सत्त्वमप्यङ्गीकार्यम् , तन्न शक्यम् , सत्त्वस्य बाधितत्वादिति भाव । अन्यतः-तदनुग्राह्यादन्यतः । अनिष्टत्वरूपाशङ्काहानेराभासत्वमित्याह--कुतश्चिदिति । विशेष्यसत्त्वापादन
1 लस्य भूत--ग. 2 मित्यपि निरस्तम्-ग. पाध्यवच्छिन्नकालत्व-ग. + नियतत्वेनैव-ग.