SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 236 सव्याख्यसर्वार्थिसिद्धिसहिततस्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः यत्स्यात्तत्सर्वदा स्याद्यदपि च न भवेत्तच्च न स्यात् कदापि क्कापि व्योमारविन्दादिवदिति यदि न सर्वार्थसिद्धिः नश्वरत्वहेतावुक्तदोषमनिर्धारयतः कालपरिच्छेदसामान्यमुखेन मिथ्यात्वशङ्कामङ्कुरन्तीमुज्जिहीर्घरुद्धाटयति-यत्स्यादिति । विवक्षितस्य हेतोरनादरप्रतिरोधाय प्रथममिहानुग्राहकोक्तिः । यत्कचित्काले स्यात् तत्कालान्तरेऽपि स्यात् ; सत्स्वभावत्वे ब्रह्मण इव सामग्रीसहस्रेणाप्यमत्त्वापादनायोगात् । असत्स्वभावत्वे खपुष्पस्येव कालविशेष सत्त्वापादनासंभवात् । तदिहानुग्राह्याभिप्रायेणाह-यदपीति । अयमत्र प्रयोगः– यत्प्रागूज़ चासत् तन्मध्येऽप्यसत् , यथा संप्रतिपन्नम् , विमतं च तथात्वान्मिथ्येति । अनयोस्तर्कानुमानयोराभासतामभिप्रेत्याह-नेति । तर्के तावत्किं कालविशेषोपश्लिष्टं सत्त्वं प्रसञ्जनीयम् ? उताविवक्षितकालविशेषं सत्त्वमानं वा ? । नाद्यः, स्वस्वरूपस्यैवाभावे आनन्ददायिनी पूर्वसङ्गत्याऽऽह -- नश्वरत्वेति । कालपरिच्छेदसामान्यमुखे. नेति । कालविशेषे सत्त्व मात्रणेत्यर्थः । कचित्काले स्यात् कालविशेषे यदि सदित्यर्थ. । ननु प्रयोगस्य प्रतिज्ञापूर्वकत्वादत्र तदभावात् कथं प्रयोग इत्यत्राह-अयमत्रेति । यद्वोदाहरणादिकानिति मीमांसकाभिमतस्य पूर्वपक्ष्यभिमतत्वात् तथा प्रयोग उपपन्न इति भावः । कालविशेषोपश्लिष्टं स्वकालान्यकालसत्त्वमित्यर्थः । नाद्य इति । ननु 1 सत्वमभि-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy