________________
सर. ३] किचिद्देशव्यावृत्तत्वनिखिलदेशव्यावृत्तत्वयोमिथ्यात्वहेतुत्वासभवकथनम् 235
सर्वार्थसिद्धिः सतां परस्परव्यावृत्तत्वात् । सत्तारूपस्तु तेषां धर्मो न त्वया सत्यत्वेन स्वीक्रियते, शेषं तु स्वस्थाने भविप्यति । यत्तु देशपरिच्छेदवतां स्वदेशेऽपि निवृत्तिः सेत्स्यतीति, तदपि नश्वरत्वोक्तन्यायेन प्रत्युक्तम् । यदि हि यत्र क्वचिद्देशे व्यावृत्तिहेतुम्स तर्हि स्वदेशासत्त्वं न साधयेत् , तत्सत्त्वे विरोधाभावात् । सार्वत्रिकव्यावृत्तिस्तु साध्यगर्भेति न हेतुः स्यात् ।
यन्न क्वचिन्न क्वचित्तत्वरशृङ्गादिरीतितः । इति मध्यमशिक्षा च स्वविधिक्षेपखण्डिता ।। ५१ ।।
इति व्यावर्तमानत्वानुमानभङ्गः.
आनन्ददायिनी दृष्टान्तोऽस्त्वित्यत्राह --शेषं विति । अद्रव्यसर इत्यर्थः । तदेवोपपादयति-यदि हीति । देशपरिच्छेदो हि देशव्यावृत्तिरिति तद्विकल्पोपपत्तिः । सर्वत्र व्यावृत्तिर्हि तन्निष्ठात्यन्ताभावघटितेति तयैव तत्साधने साध्याविशेष इत्याह-सार्वत्रिकेति । यन्न क्वचिदिति । यत्क्वचिदसत् तत् कचिदपि न सत् शशशृङ्गादिवदसदेवेत्यर्थः । मध्यमशिक्षाशून्यवादिसकाशादभ्यासः । स्वविधैर्ब्रह्मणोऽपि क्षेपेण मिथ्यात्वापादकत्वेन निरस्तेत्यर्थ इति पूर्वोक्तार्थसङ्गहः । ब्रह्म मिथ्या यथाकथञ्चित् व्यावृत्तत्वादिति वक्तु शक्यत्वादिति भावः ॥ ५१ ।।
व्यावर्तमानत्वानुमानभङ्गा
सर्वव्यावृत्तिभिन्नतन्निष्ठात्यन्ताभाव
__1 दिनीतितः-पा. 2 देशे व्या-ग. घटिते तथैव-ग 4 इत्यत्राह-ग.