________________
234
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
सर्वार्थसिद्धिः युष्माभिरपि दुरपह्ववम् ; अनादिसाक्षिचैतन्यविषयभूतानामविद्याव्यति. रिक्तानामनादित्वानङ्गीकारात् , स्वतःप्रकाशमानत्वाभावाच्च । सत्यत्व. निषेधः पूर्वहेतुविकल्पे दूषितः ; परतः प्रकाशोऽपि कारणदोष बाधकप्रत्ययाभावात् प्रतिष्ठितप्रामाण्यः । यच्च सत्यं सवित्स्वरूपं सर्वस्मिन् प्रकाशमाने प्रकाशते, न तथा विगीतम् , अतो मिथ्येति ; तदसत् : सर्वसंविदामैक्यस्यास्माभिरनभ्युपगमात् , त्वयाऽपि तस्य दुस्साधत्वाच्च । अन्यथा कथ न सर्वे सर्वज्ञाः ? स्वसंविदो गुरुसविदा प्रतिवादिसंविदा चैक्य पश्यन् किं तदनुगुणं नाचरसि ? भिदुरास्तु संविदः स्ववेद्येतरप्रकाशदशायां न प्रकाशन्त इति न तन्निदर्शनम् । एतेन सत्यं सत् सर्वत्र वेद्ये प्रकाशत इत्यपि दत्तोत्तरम् । प्रतिवित्तिवेद्यानां
___ आनन्ददायिनी ज्ञानानामिति भावः । तदेवोपपादयति -अनादीति । अविद्याव्यतिरिक्तानामिति । यद्यपि विद्याया अपि भिन्नायुष्कत्व ; तथाऽपि किंचिद्वैषम्यमादायात्यन्तवैषम्यं सुखादीनां दर्शयितु तथोक्तमिति भावः । पूर्वहेतुविकल्प इति ! पराधीनसिद्धेरपीत्यादिनेति शेषः । सर्वसंविदामिति । संविदोऽप्युक्तप्रकाशरहितत्वात् न व्यतिरेकव्याप्तिग्रह इत्यर्थः । सर्वसंविदामैक्ये परस्परविरुद्धाचरणं न स्यात् ; अनुकूलबुद्धेः प्रतिकूलबुद्धेर्वा एकरूपायास्सर्वसाधारण्यादिति भावः । सर्वज्ञत्वाभ्युपगमे बाधकमाह-स्वसंविद इति । ननु संविन्नानात्वमस्तु को दोष इत्यत्राह-भिदुरास्विति । दृष्टान्ता सिद्धया व्याप्यत्वासिद्धिरिति भावः । ननु तर्हि सत्स्वरूपं निदर्शनं स्यादित्यत्राह-एतेनेति । दत्तोत्तरत्वमेव दर्शयति-प्रतीति । ननु (भेदिभिः) स्वीकृत एव 1 सत्यस्य निषेधः-पा. 2 इति दत्तो-पा. ३रण्यमिति-ग. 4 सिद्धौ व्या-ग.